________________
२७२
कातन्त्रव्याकरण
[दु० वृ०]
रुचादिभ्यो ङानुबन्धेभ्यश्च कर्तर्यभिधेये आत्मनेपदानि भवन्ति । रोचते, वर्द्धते, शीङ्- शेते, चक्षिङ् - आचष्टे ।रुच इत्यनुदात्तानुबन्धोपलक्षणम् | ऊर्ध्वमादत्ते इत्युदात्तः, तद्विपरीतश्चानुदात्तः, उदात्तानुदात्तयोर्मिश्रश्च समाहारो लोकोपचारात् । तेन रुचप्रकारेभ्योऽपि भवन्ति । आदिग्रहणाच्च - निविशते, परिक्रीणीते ।।४९२ |
[दु० टी०]
कर्तरि० । कर्तरि विधीयमानत्वात् प्रधानस्य प्रत्ययस्यात्र नियमः, नार्थप्रकृत्योः रुचादिङानुबन्धेभ्य एवात्मनेपदानि नान्येभ्यः । कर्तरि रुचादिङानुबन्धेभ्यस्तु न परस्मैपदानि, शेषादेव परस्मैपदानीति नियमात् । प्रकृतिनियमे हि तृजादयो न स्युः । कर्तरि रुचादिङानुबन्धेभ्य आत्मनेपदान्येव । न च वचनाद् भविष्यन्ति परस्मैपदेष्वेवकारात् । अथ “शेषात् कर्तरि परस्मैपदम्" (३।२।४७) एवेति प्रकृतिनियमे वचनाच्च तृजादयः इति प्रतिपत्तिगौरवं स्यात् । एवं तर्हि समानविषयत्वान्नियमस्य परस्मैपदान्येव व्यावय॑न्ते इत्यास्ताम् प्रकृतिनियमोऽपि "आनोऽत्रात्मने'' इति “शन्तृङ् क्वन्सुश्च परस्मैपदम्' इति वक्ष्यति न्यायात् । यदि पुनरेककालम् उभयनियम इहाश्रीयते, 'शेषात्' इति सुखप्रतिपत्त्यर्थमेव स्यात् । रुच इत्यादि । अथवा गणे येभ्य आत्मनेभाषेति श्रूयते ते रुचादयो ङानुबन्धवर्जिताः । अन्यथा गणे ङानुबन्धपाठोऽनर्थकः स्यात्, रुचादेश्च व्यञ्जनादेर्युप्रत्ययश्च विरुध्यते । आदिशब्दोऽयं प्रकारवचने इति रुचादिङानुबन्धादिति समाहारे कृते लघुसुखनिर्देशश्च भवति, यदिह बहुवचनग्रहणं तद् 'निविशते' इत्याद्यर्थमिति विज्ञेयम्, कर्तरीति योगविभागाद् वा ।। ४९२।
[वि० प०]
कर्तरि० । रुच इत्यादि । रुचिरयमनुदात्तानुबन्ध इति सादृश्यादनुदात्तानुबन्धानां धातूनामुपलक्षणम् । ऊर्ध्वमादत्ते इति । ऊर्ध्वमित्युच्चैरित्यर्थः, तद्विपरीतश्चानुदात्त इत्यर्थादुक्तम् । लोकोपचारादित्येतेन "उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारः स्वरितः" (अ० १।२।२९, ३० ३१) इति उदात्तादिसंज्ञां प्रति सूत्रत्रयं न वक्तव्यम्, अन्वर्थबलादेव सिद्धिरित्येतद् दर्शितम् । तेन 'रुचप्रकारेभ्यः' इति रुचिसदृशेभ्यो रुचिनोपलक्षितेभ्योऽनुबन्धेभ्य इत्यर्थः । अथवा येभ्यः आत्मनेभाषा श्रूयते ते रुचप्रकारा गणे डानुबन्धवर्जिता इति, अन्यथा ङानुबन्धकरणमनर्थकं स्याद् रुचादिद्वारेणैव सिद्धत्वात् । अस्त्येवमिति चेत्, न | रुचाद्रेश्च व्यञ्जनादेरित्यत्र ङानुबन्धेभ्योऽपि