________________
तृतीये आख्यातायाये द्वितीयः प्रत्ययपादः
२६३ रात्मनो दुःखानुभवनमेव हननं तथा बहिरात्मगतया क्रियया चान्तरात्मन इति भेदः । गच्छतीत्यादि । ___असाविति ग्राम उच्यते, गम्यते ग्रामः स्वयमेवेति प्रयोगो न स्यात्, कर्मवद्भावस्याभावात्, स एव कथमित्याह - क्रियाश्रयः कतैवेति, पादविहरणात्मिका गतिक्रिया देवदत्त एव समवेता, तेन तस्यैव कर्तृत्वं ग्रामस्य तु कर्मत्वमेवेति भेदः । ननु कर्मकर्तुरोदनादेः कर्मवद्भावो विधीयते ततो द्वितीया कथं न भवति ? आत्मनेपदेन तु कर्मत्वमुक्तमिति चेद् ओदनादेः किमायातमित्याह - उक्तार्थतापि कर्मकार्यमिति । तत् कर्मत्वमोदनादेरेव कर्मण इत्युक्तम् । अतस्तदपि तस्य कार्यमित्यर्थः । किञ्च धातुरनुवर्तते ततो धातोरेव कर्मकार्य प्रति कर्मवद्भावो विधीयते, न लिङ्गस्येति । अतोऽपि न द्वितीयेति चकारेण सूचयन्नाह - धात्वधिकाराच्चेति । कर्मकर्तेत्यादि । करणाधिकरणयोरेवात्र कर्तृत्वविवक्षा न कर्मण इत्यर्थः ।
इन्श्रन्थिग्रन्थिब्रूञामात्मनेपदाकर्मकाणां प्रतिषेधः कैश्चिदुपसंख्यायते । यथा कारयते कटः स्वयमेवेति । इन्निति सामान्येन गृह्यते । तेन उत्पुच्छयते गौः स्वयमेव, चोरयते गौः स्वयमेवेत्यपि भवति। श्रथ्नीते माला स्वयमेव, ग्रथ्नीते माला स्वयमेव, ब्रूते कथा स्वयमेव । आत्मनेपदाकर्मकाणामिति आत्मनेपदविधाकर्मका ये धातवस्तेषामित्यर्थः। विकुर्वते सैन्धवाः स्वयमेव । कृञो विपूर्वाद् अकर्मकश्चेति रुचादित्वादात्मनेपदम् । एतेषु यदि कर्मवद्भावः स्यात् तदा कर्मण्यात्मनेपदे यण प्रसज्येत । अद्यतन्यामिच् प्रत्ययश्चेति, तदिह न सिध्यतीति चोदयन्नुपलक्षणमाह - कथमित्यादि । अचीकरतेति । कर्मवद्भावस्याभावाद् "भावकर्मणोश्च" (३।२।३) इतीच् प्रत्ययो न भवति, "श्रितुनुकमिकारितान्तेभ्यः" (३।२।२६) इत्यादिना चण् । "इन्यसमानलोपोपधायाः" (३।५।४४) इत्यादिना ह्रस्वः, द्विर्वचनम्, "अलोपे समानस्य" (३।३।३५) इत्यादिना सन्वद्भावादित्त्वम्, "दी? लयोः" (३।३।३६) इति दीर्घः । परिहारमाह - वचनमित्यादि । वचनं वक्तरि, प्रेषणादि च प्रयोक्तरि इति स्थितम्, न तु कथाकटयोः कर्मणोरिति । न तयोः कर्मकर्तृत्वं भवतीति भावः, तत् पुनर्विवक्षायाः प्राधान्यादिति भावः । मतमिति मतान्तरमित्यर्थः।
इह रुचादिसमाश्रयणादात्मनेपदं तथा चोपलक्षणम् । किरादिश्रन्थिग्रन्थिसनन्ताः कर्मकर्तृस्था इति रुचादौ गणसूत्रमुक्तम् । इह निमित्त-व्यपदेश-रूप-शास्त्रकार्यभेदादतिदेशोऽनेकविधः । तत्र निमित्तातिदेशो न सम्भवत्येव कर्मणो निमित्तं व्याप्यत्वं तत् कथं कर्तर्यतिदेष्टुं पार्यते कर्तृकर्मणोविरुद्धधर्मत्वाद् व्यपदेशातिदेशोऽपि नैव वत्करणादित्युक्तमेव । रूपातिदेशः कथं न भवतीति चेत् कर्मणो रूपं किन्तदिति न