________________
२६२
कातन्त्रव्याकरणम्
[वि० प० ]
कर्म | कर्म चासौ कर्ता चेति कर्मकर्ता । ननु कर्तृकर्मणोरत्यन्तभेदात् कथमिह कर्मधारयः । तत्र यदि कर्ता न कर्म, कर्म चेन्न कर्तेत्याह- क्रियमाणं त्वित्यादि । कथं स्वयमेव प्रसिध्यतीत्याह- सुकरैरित्यादि । स्वैरित्यादि । स्वैरात्मीयैर्गुणैः कर्तुः सुकरैरित्येतदुक्तं भवति । यदाह कर्ताधिश्रयणादिलक्षणात्मसाध्यव्यापारं सुकरत्वेन विवक्षिते कर्मणि निवेशयति नाहमिदं करोमि, किन्तर्हि स्वयमेव एतदात्मानमभिनिर्वर्तयतीति विवक्षा, तदैकस्यापि कर्मत्वं कर्तृत्वं च युज्यते इत्यर्थः । कर्मवदभावात् पूर्वेणैव कर्मण्यात्मनेपदं तस्मिंश्च यणिचौ प्रत्ययावित्येतदेवाह - कर्मवद्भावादात्मनेपदम् इति कर्मणीति शेषः । इह वत्करणमन्तरेण संज्ञासूत्रमिदं स्यात् कर्मकर्ता कर्मसंज्ञो भवति इति । अथ परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेण वत्यर्थं गमयति । यथा गौर्वाहीकः सिंहो माणवक : इति । ततोऽयमतिदेशो भविष्यतीति चेत् ? सत्यम् । किन्तु व्यपदेशातिदेशोऽपि स्यात्, स च संज्ञातो न भिद्यते इति पूर्वक एवार्थः प्रसज्येत, तस्मिंश्च सति कर्मकर्तुः कर्मसंज्ञकत्वात् कर्मण्येवात्मनेपद स्यात्, भावे वत्करणे सति कार्यातिदेशोऽयं भवति । तेन कर्मकर्तुरकर्मण एव सतः कर्मकार्यं विधीयते, न तु स्वाश्रयः कर्तृत्वम् अकर्मकस्वभावमप्यपनयति तस्य तत्राव्यापारात् ।
"
अतिदेशो हि कर्मकर्तुरप्राप्तं कर्मकार्यमुपनेतुं विधीयमानः कथमिह कर्तृत्वमपनयेत् । अत एव कार्यातिदेशोऽयमिति वक्ष्यतीत्याह - वत्करणं स्वाश्रयार्थम् इति । अतिदेशमन्तरेण यद् भवति तत् स्वाश्रयत्वं कर्तृत्वं तदर्थमित्यर्थः । ततः किमित्याहतेन भावेऽपीति । भवितारमन्तरेण भावो न सम्भवति भवितृत्वात् कर्तुः प्रतिपत्तिः । अतस्तत्प्रतिपन्नमेव कार्यं दर्शयितुमोदनेनेति कर्तरि तृतीयाम् आह - प्रकरणस्य प्रकरणमेव नियामकम् इत्याह- त्यादित्वादित्यादि । अन्यथा कर्मणि तव्यप्रत्यये कर्तव्ये कर्तव्यः कटः स्वयमेवेत्यपि स्यादिति भावः । ईषत्करः इति । “ ईषदुःसुषु” (४|५|१०२) इत्यादिना भावे खल् । तदन्तश्च स्वभावात् पुंलिङ्ग एव ।
कर्मकर्तेत्यभेदादिति । अभेदे हि कर्मधारयो भवति । तेन यत्र भेदगन्धोऽप्यस्ति, तत्र न भवति भिद्यमानः कुशूल: पात्राणि भिनत्तीति । अत्र तु देवदत्तगतया क्रियया कुशूलस्य कर्मत्वम् । पात्राणां च यत् कर्मत्वं तत् कुशूलगतया क्रिययेति भेदः । एतेनैकद्रव्याधारयैव क्रियया यस्य कर्मत्वं कर्तृत्वं च स कर्मवद् भवतीति दर्शितम् । तथेति आश्लिष्यमाणगतया क्रियया कर्मत्वम्, स्वगतक्रियया कर्तृत्वम् इत्यत्रापि अस्ि भेदः । द्विविधो ह्यत्रात्मेति अन्तरात्मा बहिरात्मा च । अन्तरात्मा सुखदुःखाश्रयः, , बहिरात्मा च तत् करोति येनान्तरात्मा च सुखदुःखमनुभवतीति अन्तरात्मगतया क्रियया बहि