________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
अथवा वाक्यमुदाहरणम्, तथापि न दोषः कथम् एकस्या आकृतेश्चरितार्थः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च भविष्यतीति । अन्यस्त्वाह - यस्मिन् धातौ कर्म कर्तेति विशेषणान्न भवति एतच्च धात्वधिकारादिति । 'साध्वसिश्छिनत्ति, स्थाली पचति' इति करणाधिकरणयोरत्र कर्तृत्वेनाध्यारोपो न कर्मण इति करणाधिकरणव्यापारोऽपि प्रधानक्रियाविशेषो धातुवाच्य एवैकवाक्यतानिमित्तत्वात् । कथमित्यादि । यदि ब्रूत इति कर्मवद्भावादात्मनेपदं यण् प्रसज्येत तदा अचकथत् स्वयमेवेति च प्रसज्येत | अचीकरद् इतीनन्तात् कर्तर्यद्यतन्यां चणो विधीयमानस्याप्रसङ्गः । परिहारमाह - वचनं प्रेषणादि च कर्तृस्थमेवेति विवक्षायाः प्राधान्यात् कर्मकर्तृत्वं नास्तीति भावः । आत्मनेपदं तु फलवद्विवक्षयेति । मतमिति । मतान्तरमेतत् फलवतः कर्तुविवक्षा फलवति कर्तर्यात्मनेपदमित्यर्थः । इह तु रुचादेराश्रयणादेवात्मनेपदम् | स्वयंशब्दस्य चात्मानमित्यर्थः ।
"
"
२६१
एवं भूषाक्रियाणां च 'भूषयते कन्या स्वयमेव, अबुभूषत कन्या स्वयमेव, मण्डयते कन्या स्वयमेव, अममण्डत कन्या स्वयमेव' । तथा श्रयतेश्च - श्रयते कटं छात्रः, अशिश्रियत कटः स्वयमेव । तथा अरुद्ध गौः स्वयमेव, अरोधि गौः स्वयमेवेत्यपि प्रतिषेधे कर्मैवात्र न विशेषः, स्वयमेवेति सम्बन्धात् । तथा आहते गौः स्वयमेवात्मानमित्यर्थः। तथा स्रवत्यादीनां प्रतिषेधो न वक्तव्यः, क्रियाभेदात् स्रवति कुण्डिका उदकम्, स्रवति कुण्डिकाया उदकम्, स्रवन्ति वलीकान्युदकम्, स्रवति वलीकेभ्य उदकम्, स्रवति कुण्डिका उदकम् इति विसृजतीति गम्यते । कुण्डिकाया उदकमिति निष्क्रामतीति गम्यते । स्रवन्ति वलीकान्युदकम् इति मुञ्चन्तीति गम्यते, स्रवति वलीकेभ्य उदकम् इति पततीति गम्यते ।
कार्यातिदेशोऽयमिति | अतिदिश्यापि शास्त्रं व्यपदेशं वा पुनस्तत्प्रतिबन्धं कार्यमन्वेष्टव्यम् । तस्माद् वरं कार्यातिदेश एवं लाघवादिति भावः । किञ्च कार्यातिदेशे यणादयोऽनेन विधीयन्ते इति ये कर्त्राश्रयाः कर्तर्यनादयः प्राप्नुवन्ति ते परत्वादेव यणादिभिर्बाध्यन्ते । शास्त्रातिदेशे तु स्वैरेव शास्त्रैर्यणादयः प्राप्यन्ते इति परत्वात् कर्मकर्तर्यनादयः स्युः । अथ " सार्वधातुके यणू” (३ । २।३१) इत्यत्र भावकर्मणोरित्यनुवर्तनात् कर्माश्रिता एव विधयो भवन्तीति शास्त्रातिदेशश्चासम्मोहन इति युक्तम् । कार्यातिदेशपक्षेऽपि तत्र भावकर्मणोरित्यधिकारः सुखप्रतिपत्त्यर्थ एव । ननु कर्मणि पदं व्युत्पाद्य स्वयंशब्दसंबन्धात् कर्ता प्रतीयते । कर्मविहितस्याप्यनिवर्तकता पश्चात् कालभावित्वेन बहिरङ्गत्वादिति ? सत्यम्, पदसंस्कारकमेव व्याकरणम्, किन्तु प्रतिपत्तिगौरवं स्यात् ॥ ४९१ ।