________________
२६०
का मन्त्रव्याकरणम्
कर्ता दृश्यते, क्रिया चोपलभ्यते । किञ्च भोगविग्रहवतैव क्रियायाः कर्त्रा भवितव्यम्, न वातातपकाला अपि कर्तारः स्युः । नैतदेवम्, निर्वाते निरातपे चाविकृतकुसूलः स्वयमेव भिद्यते तस्य नान्यः कर्ता भवति, अस्ति काचिदवस्था कुसूलस्य यस्मात् कर्तृव्यापारमनपेक्षमाण एव भिदामासादयति तानवस्थामाश्रित्य कर्ता । अत्र चात्मसंयोगे कर्तुः कर्मदर्शनादिति नादृतम् । केदारशब्देन च तत्स्था व्रीहय आख्यायन्ते !
ननु लूयते अत्र द्विधाभवनम् द्विधाभवनं वाऽभिधेयं स्यात् | सुकरतायां तु केदारो व्यापारेणैव वर्तते । तत्र कथम् अधातुवाच्यस्यार्थस्य केदारः कर्ता स्यात् । उच्यते – सुकरतोपाधिके द्विधाभवने लुनातिर्वर्तते एव, तत्र च केदारस्य कर्तृत्वमिति । कर्मवद्भावादात्मनेपदमिति ओदनादेर्देवदत्तादिव्यापारेण व्याप्यमानस्य कर्मत्वे सिद्धे कर्तृत्वविवक्षायामपि कर्मप्रतिबन्धकार्यप्रतिपत्त्यर्थोऽतिदेशः इति । एवम् उदुम्बरं पचति रविर्वायुर्वा पच्यते फलमुदुम्बरं स्वयमेव । वतिरयं सादृश्योपादाने, सादृश्यं च रूपतो व्यपदेशतो निमित्ततः कार्यतः शास्त्रतो वा भवति । कर्मणो निमित्तं व्याप्यत्वम्, न तु कर्तुर्विरुद्धधर्मत्वात् । प्रवृत्तिनिवृत्तिलक्षणः पुनर्व्यपदेशः । तथाहि यत्र कर्मव्यपदेशोऽस्ति तत्र शास्त्रं कार्यं च प्रवर्तते, व्यपदेश: संज्ञासंज्ञिसम्बन्धान्न व्यतिरिच्यते । वतिमन्तरेण च वत्यर्थो गम्यते एवेत्याह- वत्करणं स्वाश्रयार्थमिति । तेन भावेऽपीति । भावो हि भवितरि सति भवतिनाऽन्तरीयकत्वात् कर्तुः प्रबन्धनेन कार्यं स्यादिति । अथवा कर्मत्वेऽपनीते कर्तृत्वे सति धातुरकर्मक इति भावे भवति ।
-
पूर्वाचार्यास्तु सञ्ज्ञामाचक्षते कर्मैव कर्मवत् कर्तुरिह कर्मणा क्रियाकृतभेव सादृश्यम् । कर्मणा तुल्यक्रियः कर्ता कर्मसंज्ञो भवतीत्यर्थः । भिद्यमानः कुसूल: स्वयं भिद्यते कुसूलेन, भावस्य विवक्षितत्वादिति मन्यन्ते । कृत्यक्तखलर्थेषु प्रतिषेधो न वक्तव्य इत्याह – त्यादित्वादित्यादि । आख्यातमिदं प्रकरणं कुतः कृत्प्रकरणे प्राप्तिरिति भावः । ईषत्कर इति खलन्तः पुंलिङ्ग एव । कर्मकर्तेत्यभेदादिति एका भेदनक्रिया देवदत्तस्य तया कुसूलः कर्म कुसूलस्य भेदनक्रियायां पात्राणि कर्मेति । यदा अन्योऽन्यमाश्लिष्यतस्तदा कर्तेवाश्लिष्यमाणश्च कर्मैवेति । द्वाविहात्मानौ अन्तरात्मा शरीरात्मा च, अन्तरात्मा तत् करोति येन शरीरात्मा सुखदुःखमनुभवति । शरीरात्मा च तत् करोति येनान्तरात्मा सुखदुःखमनुभवति । आत्मेति गम्यमानमपीह सुखार्थं प्रयुज्यते, नात्र पचतिरकर्मकत्वेन वर्तते, अपि तु राध्यति धात्वन्तरमिति शब्दान्तरत्वात्, प्रतीयमानश्च कर्मवद्भावो बहिरङ्गो धातुक्रियाकारकभेदेन भवतीति कर्मवद्भावस्य पदमुदाहरणं न वाक्यम् - पचत्योदनम्, पच्यते ओदनः स्वयमेवेति द्वे वाक्ये | अत्र पूर्वं वाक्यम् बालकव्युत्पादनार्थमेव कैश्चिदुपादीयते ।