SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताप्याये द्वितीयः प्रत्ययपादः २५९ ३. क्रियते कटो देवदत्तेन | कृ+ यण् + ते (कर्मवाच्य)। 'डु कृञ् करणे' (७।७) धातु से कर्मवाच्य में प्रकृत सूत्र द्वारा आत्मनेपद, ते प्रत्यय, “सार्वधातुके यण" (३।२।३१) से यण् प्रत्यय, “यणाशिषोर्ये" (३।४।७४) से इकारागम तथा "रम् ऋवर्णः” (१।२।१०) से ऋकार को रकारादेश ।। ४९०। ४९१. कर्मवत् कर्मकर्ता [३।२।४१] [सूत्रार्थ] कर्मकर्ता = जो कर्म कर्ता के रूप में विवक्षित होता है, उसको कर्मवद्भाव हो जाता है ।।४९१। [दु० वृ०] कर्म चासौ कर्ता चेति कर्मकर्ता कर्मवद् भवति । क्रियमाणं तु यत् कर्म स्वयमेव प्रसिध्यति । सुकरैः स्वैर्गुणैः कर्तुः कर्मकर्तेति तद् विदुः॥ लूयते केदारः स्वयमेव, अभेदि कुसूलः स्वयमेव, कर्मवद्भावादात्मनेपदम् । वत्करणं स्वाश्रयार्थम । तेन भावेऽपि 'पच्यते ओदनेन स्वयमेव' | त्यादित्वान्न तव्यादिष कर्मवद्भावः । कर्तव्यं कटेन स्वयमेव, ईषत्करः कटेन स्वयमेव । कर्मकर्तेत्यभेदाद् भेदे तु न स्यात् - भिद्यमानःकुसूलः पात्राणि भिनत्ति, तथा अन्योऽन्यमाश्लिष्यतः |आत्मानं हन्ति आत्मेति । द्विविधो यत्रात्मा तथा पचत्योदनम्, राध्यति स्वयमेव धातुभेदात् । गच्छति ग्राममसौ गम्यते इति न स्यात् । क्रियाश्रयः कर्तेव केवलं कर्मेति भेदात् । उक्तार्थतापि कर्मकार्यम्, तेन न द्वितीया, धात्वधिकाराच्च । कर्मकर्तेति किम् ? साध्वसिश्छिनत्ति, साधु रथाली पचति । कथं ब्रूते कथा स्वयमेव । अचीकरत कटमसौ स्वयमेव ? वचनं प्रेषणादि च कर्तृस्थमेव, आत्मनेपदं तु फलवद्विवक्षयेति मतम् । कार्यातिदेशोऽयम् ।।४९१। [दु० टी०] कर्मवत् । कर्म चासौ कर्ता चेति । ननु कर्म कथं कर्ता, अथ कर्ता कथं कर्मेति विप्रतिषिद्धत्वाद् भिन्नाधिकरणमेव ? सत्यम्, धातोः कस्यचित् कश्चिदर्थभागः कर्मप्रधानफलरूपो विक्लित्यादिः । कश्चित् कर्तृस्थो गुणो भावनारूपोऽधिश्रयणादिः । तत्र यदा कर्तृस्थे धातोः स्वस्यार्थभागे सुकरत्वेन कर्मण्यध्यारोपितायां भावनायां धातुर्वर्तते तदा तत् कर्मकर्ता भवतीत्याह – क्रियमाणं त्वित्यादि । अन्य आह - कर्मकर्तरि स्वतन्त्रकर्मत्वमस्ति, इह हि यस्मादर्थे भिद्यते कुसूलः स्वयमेवेति नान्यः
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy