________________
२६४
कतन्त्रव्याकरणम्
विद्मः, यणादिकमिति चेत् कार्यातिदेश एकायं किमुच्यते रूपातिदेश इति । शास्त्रातिदेशोऽपि न युज्यते यतोऽतिदेश्यमपि शास्त्रं तत् प्रतिबन्धनेव कार्यमनुसतव्यम् । अपि चात्र पक्षे “सार्वधातुके यण" (३।२।३१) इत्येवमादिभित्व शास्त्रैरतिदिष्टैर्यणादयो विधेयाः । तत्र च कर्मकर्तरि परत्वादनादयोऽपि दिकरणा भवेयुः, वत्करणस्य स्वाश्रयत्वेन कर्तृत्वप्रतिबन्धस्यापि कार्यस्य सम्भवात् । कार्यातिदेशपक्षे तु सकलमनेनैव कार्यमित्यस्यैव परत्वाद् यणादय एवेत्याह - कार्यातिदेशोऽयमिति ।। ४९१ ।
[क० च०]
कर्मवत् । पूर्वसूत्रे दृष्टत्वाद् अत्रापि कर्मशब्दः कारकवचनो न तु क्रियावचनः । अत्र प्रथमान्ताद् वतिप्रत्ययः कर्मकर्तेत्यनेन सामानाधिकरण्यान्न तु सप्तम्यन्तात् । तदा हि कर्मकर्तुरिति निर्देष्टुं योग्यम्, यथा कुट्याम् इवाचरतेि प्रासादे इति । ननु कर्मकर्तेत्यत्र किं बहुव्रीहिः, किं वा द्वन्द्वः, किं वा षष्ठीतत्पुरुषः, किं वा कर्मधारयः, असमस्तं वा पदम् ? न तान्द् बहुव्रीहिः, उभयपदे लक्षणाप्रसङ्गाद् ऋदन्तलक्षणकप्रत्ययप्रसङ्गाचा । नापि द्वन्द्वः कर्मणः कर्मवद्भावस्य वैफल्यात् । अथ कर्मशब्देनात्र क्रियोच्चते इति चेत् तर्हि इतरेतरे द्विवचनप्रसङ्गात् समाहारे नपुंसकप्रसङ्गाच्च । नापि षष्ठीतत्पुरुषः ! यदि कर्मशब्देन क्रियोच्यते तदा कर्मग्रहणमेव व्यर्थं स्यात् । न हि आक्रयायाः कर्ता सम्भवतीति । अथ यदि कर्मशब्देन कारकमुच्यते तदा कर्मणः कर्ता कर्मवद् भवतीत्युक्ते 'कटः क्रियते देवदत्तः' इत्यनिष्टमपि स्यात्, घटं करोति देवदत्तः इत्यादावनिष्टं स्यात् । व्यावृत्तिश्च देवदत्तो भवतीत्यत्र बोद्धव्या ? सत्यम् । षष्ठ्यर्थे लक्षणाप्रसङ्गान्न षष्ठीतत्पुरुषः । निःसन्देहार्थं कर्मणः कर्तेति असमस्ताकरणाच्च । किञ्च कर्मधारये सति अभेदान्वयः षष्ठीतत्पुरुषे च भेदः । न ह्यभेदान्वयसम्भवे भेदान्वयो ग्राह्य इति गौरवात् ।
वस्तुतस्तु अनिष्टार्थप्रक्लृप्तिभयादेव तत्पुरुषनिरासः । अत एवासमस्तपक्षोऽपि दूरीकृतो वाक्यभेदापत्तेः । तथाहि कर्मक्रिया कर्मवद् भवति का च कर्मवद् भवतीति । कारकवचने तु कर्मणः कर्मवद्भावो विफल: एवेति दिक। एतन्मनसि कृत्वा वृत्तिकृद् आह - कर्म चासौ कर्ता चेति । असाविति कर्तृपरामर्शः। कर्मपरामर्श हि नपुंसकत्वापत्तिः स्यात् । कर्मकर्तेति पदं काकाक्षिन्यायाद् विग्रहवाक्ये कर्मवद् भवतीत्यत्र च सम्बन्धनीयम् । कर्मवद्भवतीति कर्मकार्यभाग भवतीत्यर्थः । ननु क्रियायाः स्वतन्त्रो यः स कर्ता, कर्तक्रियया यद् व्याप्यते तत् कर्मेत्युच्यते । ततस्तुल्याधिकरणत्वाभावात् कर्मधारयः कथं स्यात् ? अत एव पञ्यामपि कर्तृकर्मणोरत्यन्तभेदात् कथं कर्मधारय इत्युक्तम् ? तत्र चात्यन्तमिति क्रियाविशेषणम् ?