________________
२५६
कातन्त्रव्याकरणम्
द्वित्वादिविशेषाभावेऽपि एकत्वस्यापह्नोतुमशक्यत्वात् । अत एवोत्सर्गसिद्धेरेकत्वविधीयमानमेकवचनमौत्सर्गिकमुच्यते । क्रियते इति । " यणाशिषोर्ये" (३।६।१३) इति इकारागमः । शय्यते इति । " अयीर्ये” (३।६।१९) इत्यम् । सुप्यते इति । “स्वपिवचि०' (३।४ । ३) इत्यादिना सम्प्रसारणं वकारस्योकारः । यथा हि कालादीनां कर्मत्वं सिद्धम्, अकर्मकैरपि धातुभिर्योगे तथा “यत् क्रियते तत् कर्म" (२|४|१३) इत्यत्रैव दर्शितम् ।।४९० ।
[क० च०]
आत्मने० | क्र्यादिरिह नानुवर्तते वक्ष्यन्ते इति निर्देशात् । " येन क्रियते तत् करणम्” (२।४।१२) इत्यादिनिर्देशाद् व्यञ्जनादिति नानुवर्तते तत्सम्बन्धात् । सार्वधातुके इत्यपि नानुवर्तते । वस्तुतस्तु अन्वयादेव नानुवृत्तिः । अथ सार्वधातुकविषये भावकर्मणोरात्मनेपदानि भवन्तीत्यन्वयो भविष्यति चेत्, न । निमित्तसप्तम्या विषयत्वकल्पने गौरवं स्यात् । केचित्तु " सार्वधातुके यणू” ( ३।२।३१) इत्यत्र सार्वधातुकग्रहणमिदं ज्ञापयति, तन्न | सार्वधातुकग्रहणाभावे पाक इत्यादौ कृदन्तभावेऽपि यण्प्रसङ्गादिति ब्रूमः । ननु भावश्च कर्म चेति युक्तार्थे व्यञ्जनान्तस्य यत्सुभोरित्यतिदेशबलात् लिङ्गान्तनकारलोपः कथं न स्यात् ? सत्यम् । अत एव निर्देशादुत्तरपदे न भवति, तेन परमदण्डिनावित्यादिकं सिद्धम् |
'ननु सूत्रमिदं किमर्थम्, सामान्येन धातुमात्रात् त्यादयः सिद्धा एव ? सत्यम् | सिद्धे सति पुनर्विधानं नियमार्थम् । स च प्रत्ययनियमो यथा धातोर्भावकर्मणोरेवात्मनेपदानि भवन्ति नान्यत् । ननु कर्मणि भावे चेत्यादिना सामान्यविधानादेव सिद्धे प्रकरणमिदं नियमार्थम्, तदभावादस्मन्मते कथं नियमः ? सत्यम्, कर्तृकर्माद्यर्थे विधानं विना “बहुषु बहुवचनम्" इत्यादिकम्, “युष्पदि मध्यमः, नाम्नि प्रयुज्यमानेऽपि प्रथमः” (३।१।६, ५) इत्यादिकं चानर्थकमेव स्यात् । न हि धातोरर्थे एकत्वादिसङ्ख्यास्ति, येन धातोरर्थे भविष्यतीति वाच्यम् : किञ्च विभक्तिसंज्ञाया अन्वर्थबलादेव कर्तृकर्माद्यर्थे भवतीति लभ्यते । भावकर्मणोरात्मनेपदान्येवेति नियमस्तु न संभवति, भावे कृत्प्रत्ययस्यापि सम्भवात् । अथ सम्ानविषयत्वात् परस्मैपदमेव । परस्मैपदमेव नियमेन व्यावृत्यते इति चेत्, प्रतिपत्तिगौरवं स्यात् ।
१. श्रीपतिना "सुभोर्नोत्तरपदस्य" (कात० परि०, स० ३३ ) इति सूत्रं कृतम् । अयमर्थ:सुभोर्यदतिदिष्टं तदुत्तरपदे बोद्धव्यम्, न तूत्तरपदस्य । अत एव निर्देशाद् अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदान्तेऽपि ङणना इत्यनेन द्वित्वं च न स्याद् इति कुत्रचित् पाठः ।