________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
क्रियावचनो धातुरिति उभयमुभयशब्देनोच्यते इति । धातुमात्रादविशेषेण त्यादयः प्राप्ताः नियमार्थमारभ्यते । कामचारप्राप्तस्य प्रकारान्तरेण पुनर्विधानं नियमः, स तु प्रत्ययनियमो धातोर्भावकर्मणोरेवात्मनेपदानि भवन्ति, न त्वर्थनियमो भावकर्मणोरात्मनेपदान्येवेति । अर्थनियमे हि भावकर्मणोस्तव्यादयो न स्युः । अथानवकाशा एते भावकर्मणोर्विधानबलाद् भविष्यन्ति, कर्मणि तर्हि घञ् न स्यात् ? को भवतां दायो दत्तः, को भवतां लाभो लब्ध इति ? सत्यम् । समानविषयत्वान्नियमस्य परस्मैपदान्येव व्यावृत्यन्ते इति चेद् इत्यध्याहार्यं प्रतिपत्तिगौरवं स्यात् । प्रत्ययनियमे वक्ष्यमाणे कर्तरीति वचनान्न दोषः, तर्हि किमेवकारेण कृतमित्युच्यते वक्ष्यमाणेभ्योऽन्यस्माद् धातोर्भावकर्मणोरेवात्मनेपदानि भवन्ति न कर्तरीति साधितम् ।
२५५
एकस्यापि वचनस्य काल: संख्याकर्मादयश्चार्था वचनात्। उक्तञ्च, सुपां कर्मादयोऽप्यर्थाः संख्या चैव तिङाम् । कर्मादयश्व प्रसिद्धो नियमः प्रकृतेषु वा ॥
भाव सत्तेति । सा च यादृशी धातुना विधीयते तादृशी संख्या नास्ति ! सदवस्था हि प्रकारवती । असदवस्था च साधनसंबन्धविरोधिनीति । न तामवस्थां धातव आचक्षते । या त्ववस्था साधनसम्बन्धेनाविरुद्धा सा धातुभिराख्यायते । तस्माच्छब्दधर्मत्वादेकवचनमेव भावे । कर्मणि तु यानि द्विवचनबहुवचनानि तानि साधनसंख्यायां भावे तर्हि प्राप्नुवन्ति, आस्यते भवद्भ्याम्, आस्यते भवद्भिरिति । नैवम्, एकपदवाच्यस्य साधनस्य संख्यामाख्यातमाचष्टे । एकः पचति, द्वौ पचतः त्रयः पचन्तीति । एकेन पच्यते, द्वाभ्यां पच्यते, त्रिभिः पच्यते इति । कथं तर्हि पाकः, पाकौ, पाका इति, भावभेदापेक्षाण्येतानि न पक्तृपाच्यभेदापेक्षाणि । सदवस्थो हि कृतां भाव इति धातुसंज्ञायामुक्तमेव । भूयमानमित्यत्र पुनरेकवचनमेव तादृशलक्षणस्यासत्त्वभूतस्य युष्मदस्मद्भ्यां सत्त्वभूताभ्यां सामानाधिकरण्यस्यासम्भवात् कथम् उष्ट्राशिका आस्यन्ते हतशायिकाः शय्यन्ते इति भावेऽत्र नात्मनेपदम्, किन्तर्हि कर्मणि उष्ट्राशनम् उष्ट्राशिका हतशयनं हतशायिका तस्य द्रव्यत्वाभेदे सति द्विवचनबहुवचनानि भवन्तीति मनसि कृत्वाह - देवदत्तेन मास आस्यते इत्यादि ।। ४९० ।
[वि० प० ]
आत्मने० । भावः सत्तेति । ननु यदि असंख्या सत्ता तत् कथम् एकवचनमपि, अस्याप्येकत्वसंख्यायां विधीयमानत्वात् । युक्तम्, द्वित्वादिसंख्याविशेषरहितत्वादसंख्यत्वं सत्तायाः प्रख्याप्यते, न तु उत्सर्गसिद्धैकत्वसंख्यापि नास्ति प्रमाणतः सिद्धसत्ताया