________________
तृतीये आख्याताध्याये द्वितीयः प्रत्यपादः
२५७ ननु यदि भावकर्मणोरात्मनेपदान्येव भवन्ति तदा कथं रोचते, वर्धते, कुरुते इति ? सत्यम्, "कर्तरि रुचादि०" (३।२।४२) इत्यादिविशेषविधानात्, तर्हि क्व नियमव्यावृत्तिश्चेद् भवतीत्यादौ तदयुक्तम्, “कर्तरि परस्मैपदम्" (३।२।४७) इत्यनेन परस्मैपदमेव भविष्यति न यात्मनेपदम् । ततो नियमेन किं कृतप् इति चेद् उच्चते - वक्ष्यमाणेभ्यो धातुभ्योऽन्यस्माद् धातो वकर्मणोरेवात्मनेपदानि भवन्ति । न कर्तरीति साधितम् । यत्तु "शेषात् कर्तरि" (३।२।४७) इति सूत्रम्, तदपि कर्तर्येवेति नियमपरम्, न तु भावे कर्मणि च । एवं च सति कर्तर्यात्मनेपदस्यापि प्राप्तौ भावकर्मणोरेवात्मनेपदमिति नियमः क्रियते ।
ननु यदि भावकर्मणोरेवात्मनेपदान्येव भवन्ति, तदा कथम् ‘एति जीवन्तमानन्दो नरं वर्षशतादपि' (वा० रा० ५।३४।६; ६।१२९।२) इति, "रोगो रुजति रोगिणम"; तथा च किं विचेष्टितम् इत्यानन्दरोगयो वयोः स्तुतेश्च कर्मण्येवात्मनेपदमेव स्यात् ? सत्यम् । प्रत्यासत्त्यात्मनेपदप्रकृतेर्भावे तत् कर्मणि चात्मनेपदमेव विधीयते इति न दोषः । न चात्र प्रकृतिवाच्यो भावस्तत् कर्म वा प्रत्ययार्थ इति । ननु पाणिनिलते भावेऽकर्मकधातुभ्य इत्यस्ति । अस्मन्मते सकर्मकादपि भावे स्यात् ? सत्यम् । सूत्रे कर्मणोरिति कृतेऽपि द्विवचनबलात् क्रियावचनः कारकवचनश्च कर्मशब्दोऽभिज्ञाप्यते, तथापि यद् भावग्रहणं तदकर्मकधातोरेव भावे भवतीति ज्ञापयति । एवं "भावकर्मणोः कृत्यक्तखलाः" (४।६।४७) इति वररुचिः। पाणिनिनापि 'भावे चाकर्मकधातुभ्यः' इत्युक्तम् । अत एव कर्मवत्सूत्रेऽकर्मकत्वाद् भावे प्रत्ययः सिध्यतीति टीकायां वक्ष्यते । तर्हि कथं ‘पच्यते देवदत्तेन' इति भावे प्रत्यय इति चेद् अविवक्षितकर्मत्वाद् भवत्येवेति । न विद्यते कर्म येषां ते अकर्मका इति व्युत्पत्तेः । त्रिमुनिसंग्रहकारमते तु पूर्वम् अविवक्षितकर्मत्वात् पच्यते मासान् इत्यपीच्छति । यत्तु क्वचित् सकर्मकादपि भावे कृत्प्रत्ययः । एवं सति 'कां दिशं गन्तव्यम्' इति कादम्बरीप्रयोग उपपन्नो भवतीति, तेनोक्तं तदपि प्राक् कर्मविवक्षायामपि भावे प्रत्यय इत्याशयेनैवेति लक्ष्यते । एवं च सति "भानाख्यातं प्रौव्यात्" (कात० परि० का० ९६) इति श्रीपतिसूत्रं प्रलपितमात्रम् ।। ४९०।
[समीक्षा]
'आस्यते, शय्यते, सुप्यते भवता । क्रियते कटो देवदत्तेन' इत्यदि शब्दरूपों को भाव - कर्म अर्थ में सिद्ध करने के लिए पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने आत्मनेपद का विधान किया है । पाणिनि का सूत्र है - "भावकर्मणोः' (अ० १।३।१३) । सत्ता को भाव कहते हैं । इस अर्थ में औत्सर्गिक एकवचन ही होता