________________
२०
कातन्त्रव्याकरणम् विवादो भवेन्नाम, परं पाण्डेयमहोदयस्य लेखप्रस्तुतिः कातन्त्रव्याकरणमेव पूर्वभवं मनुते नाट्यशास्त्रोद्भवापेक्षया । तदीयपक्षसाधकमभिमतमस्ति आचार्यविद्यानन्दमहाभागानाम् । एतत् सर्वं वार्तया विदितं मया ।
तृतीयसत्रस्यान्तिमे व्याख्याने कातन्त्रव्याकरणस्य सम्पादनानुभवो दिल्लीविश्वविद्यालयात् सेवानिवृत्तेन डॉ० आर० एस० सैनीमहोदयेन, कातन्त्रव्याकरणं तदीयोपयोगिता च कुरुक्षेत्रविश्वविद्यालयीयेन प्रो० धर्मचन्द्रजैनमहोदयेन स्वकीयशोधलेखमाध्यमेन प्रस्तुता। ___अध्यक्षेण प्रो० नामवरसिंहमहोदयेन व्याकरणेऽपि जीवनदर्शनमस्ति, भारतीयसंस्कृतिसुरक्षायै व्याकरणाध्ययनं नितान्तमावश्यकम्, ब्राह्मण-श्रमणविरोधो नैव शाश्वतिक इत्यादीनि बहूनि तथ्यानि प्रतिपादितानि चन्द्रधरशर्मागुलेरीमहोदयस्य 'पुरानी हिन्दी' पुस्तके समुद्धृतकातन्त्रीयच पुरस्सरम् ।
___ समापनसत्रस्याध्यक्षतां चकार दिल्लीविश्वविद्यालयीयभाषाविज्ञानविभागाध्यक्षेण प्रो० प्रेमसिंहमहोदयेन, सभायाः संचालनं च कृतं डॉ० सुदीपजैनमहोदयेन | अस्मिन् सत्रे त्रयः शोधलेखा विद्वद्भिः पठिताः ।
सर्वप्रथमं पाणिनीयकातन्त्रव्याकरणयोस्तुलनात्मकं वैशिष्ट्यमधिकृत्य नईदिल्लीस्थश्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य प्रो० अश्विनीकुमारदासमहोदयेन शोधलेखः पठितः । यत्र तेन पाणिनीयापेक्षया कातन्त्रीयं भावकर्थिकप्रत्ययविधानं सकर्मकाकर्मकव्याख्या वर्णादिविचारश्च विशिष्टो मन्यते । परं तदीयमिदं कथनं नैव समीचीनं प्रतिभाति यत् पाणिनीयव्याकरणवत् कातन्त्रे नैव दर्शनविषयो व्याख्यातः परिलक्ष्यते इति, यतो हि महाभाष्यपस्पशाह्निक - वाक्यपदीय - वैयाकरणभूषणसार - मञ्जूषाप्रभृतिषु व्याकरणदर्शनग्रन्थेषु नैव केवलं पाणिनीया एव व्याकरणसिद्धान्ता व्याख्याताः, अपितु व्याकरणशास्त्रमात्रस्य । अथ च कातन्त्रीयव्याख्यास्वपि यत्र तत्र व्याकरणदर्शनविषयो नूनमेव व्याख्यातो दृश्यते ।
द्वितीयःशोधलेख आसीत् ‘पाणिनीयव्याकरणालोके कातन्त्रव्याकरणम्' बिजनौरस्थजैनकालेजे संस्कृतविभागाध्यक्षस्य डॉ० रमेशचन्द्रजैनमहोदयस्य । कातन्त्रव्याकरणस्य पालिव्याकरणेषु प्रभावः' इति विषयेऽन्तिमः शोधलेखश्च पठितो लखनऊस्थकेन्द्रीयसंस्कृतविद्यापीठस्योपाचार्येण डॉ० विजयकुमारजैनमहोदयेन । अत्रेदमवश्यं ध्यातव्यं यत् कातन्त्रीयाणि शतद्वयसंख्याकानि सूत्राणि कच्चायनपालिव्याकरणे समानानि दृश्यन्ते कानिचिच्च सूत्राणि मोग्गलानव्याकरणेऽपि समानान्येव सन्ति ।
संगोष्ठ्याः समाप्तौ संयोजकेन डॉ० सुदीपजैनमहोदयेन विदुषां पक्षण स्वीकृताः संस्तुतयः एवं समुद्घोषिताः -
१. श्रीकुन्दकुन्दभारतीसंस्थानेन वर्षद्वयाभ्यन्तरमेव कातन्त्रव्याकरणविषयिण्या बृहद्राष्ट्रियसंगोष्ट्या आयोजनं पुनः करिष्यते ।