________________
भूमिका
१९ नईदिल्लीस्थभारतीयज्ञानपीठस्य शोधाधिकारिणो डॉ० देवेन्द्रकुमारशास्त्रिणःशोधलेख आसीत् कातन्त्रव्याकरणस्य प्राचीनताविषये । श्रीयुधिष्ठिरमीमांसकविचारानुसारेण व्याकरणमिदं विक्रमपूर्वपञ्चदशशतवर्षेषु प्रचलितमासीत् । अन्ये समीक्षका अस्य रचनाकालं यीशवीयप्रथमशतके स्वीकुर्वन्ति ।अस्तु, न्यूनतःसहस्रद्वयवर्षेभ्यो व्याकरणमिदं शब्दविद्याश्रीसंवर्धने देशे विदेशेषु च प्रवृत्तमस्ति |
द्वितीयस्यास्य सत्रस्य आध्यक्ष्यं नियूढं प्रो० सत्यरञ्जनबनर्जीमहाभागेन । कार्यक्रमस्य संचालक आसीत् प्रो० राजारामजैनमहोदयः।
तृतीयसत्रस्याध्यक्षतां कृतवान् समालोचकःप्रो० नामवरसिंहमहोदयः ।अस्मिन्नपि सत्रे षट् शोधलेखाः विद्वद्भिः पठिताः |सभासंचालनं चाकरोत् प्रो० प्रेमसुमनजैनमहोदयः ।
अत्र सर्वप्रथमं 'Katantra Vyakarana : The style and technical terms' विषये शोधलेखं पठितवती राजस्थानीय-कोटा-मुक्तविश्वविद्यालयस्य निदेशिका डॉ० सुषमा सिंघवी । यत्र दीर्घल्-क्षवर्ण-सन्ध्यक्षर-जिह्वामूलीय-उपध्मानीयप्रभृतिसंज्ञाशब्दा विचारिताः आसन् ।
राजस्थान - उदयपुरस्थसुखाड़ियाविश्वविद्यालये उपाचार्येण डॉ० उदयचन्द्रजैनमहोदयेन राजस्थानीयशास्त्रभण्डारेषूपलब्धं कातन्त्रव्याकरणमधिकृत्य स्वकीयः शोधलेख: पठितः । तदनुसारेण राजस्थानीयग्रामीणाञ्चलमन्दिरेष्वपि पर्याप्तसंख्याका हस्तलिखितप्रतय उपलभ्यन्ते । बालावबोधव्याख्याया रचना तेन प्राकृतभाषामिश्रिता संसाधिता ।
__ आचार्यकुन्दकुन्दपुरस्कारेण राष्ट्रपतिसम्मानेन च संमानितः प्राकृतसिन्धुपदवीकः आरा-विहारप्रदेशीयःप्रो० राजारामजैनमहोदयः अद्यावधि अप्रकाशितस्य कातन्त्रविस्तरस्य परिचयात्मकमध्ययनं प्रास्तौत् । अस्य कर्गलीयपाण्डुलिपिः आरा-विहार-स्थितजैनसिद्धान्तभवनस्य प्राच्यग्रन्थागारे सुरक्षिताऽस्ति । अस्या अपि मूलाधारो वर्तते मूडबिद्रीकर्नाटकस्थदिगम्बरजैनमठीयग्रन्थागारे सुरक्षिता ताडपत्रीया काचित् प्रतिः । ग्रन्थस्यास्य कारकीयः कश्चिदंशो मञ्जूषापत्रिकायां (व० १२, अं० ९) मुद्रितो दृश्यते । कर्णदेवोपाध्यायप्रणीतोऽयं वङ्गोत्कलादिलिपिष्वपि संप्राप्यते । प्रो० जैनमहोदयेन ग्रन्थादिमङ्गलपाठः प्रस्तुतः -
___'जिनेश्वरं नमस्कृत्य गौतमं तदनन्तरम्' इति । परमन्यत्र भिन्न एव पाठः परिलक्ष्यते -
___'महेश्वरं नमस्कृत्य कुमारं तदनन्तरम्' इति । अस्य सम्पादनप्रकाशनानन्तरमेव वस्तुस्थितिः स्पष्टा स्यात् ।
___नवदिल्लीस्थश्रीलालबहाटरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे शोधप्रकाशनविभागीयनिदेशकस्य प्रो० रमेशकुमारपाण्डेयमहोदयस्य शोधलेख आसीत् – 'नाट्यशास्त्रे कातन्त्रीयप्रभावः' इति । विदुषां विदितमिदं यत् कातन्त्रनाट्यशास्त्रीयरचनाकालस्य पौर्वापर्यविषये