________________
१८
कातन्त्रव्याकरणम् निदेशकेन । यत्र पाणिनीयकातन्त्रव्याकरणमाध्यमेन भाषागतध्वनिविचारः संगृहीत आसीत् ।
द्वितीये सत्रे षण्णां विदुषां शोधलेखपाठः संजातः । यत्र कथात्मकतथ्य-परम्पराअपूर्वता-दुर्लभपाण्डुलिपि-वर्णविचार-प्राचीनतादिविषयाः समाविष्टा आसन् । उदयपुरविश्वविद्यालये प्राकृतभाषाविभागाध्यक्षेण प्रो० प्रेमसुमनजैनमहोदयेन कातन्त्रव्याकरणस्य कथात्मकं तथ्यं व्याचक्षाणेन कातन्त्रकालीन भारत' इति ग्रन्थरचनाया आवश्यकता प्रतिपादिता । लालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे नवदिल्लीस्थे प्राकृतभाषाविभागाध्यक्षेण डॉ० सुदीफ्जैनमहोदयेन कातन्त्रव्याकरणस्य मूलपरम्परा वैशिष्ट्यानि च व्याख्याय विश्वविद्यालयीयपाठ्यक्रमे कातन्त्राध्ययनमवश्यं सम्मिलितं भवेदिति स्वकीयमभिमतं प्रकाशितम्, तदर्थं विद्वांसः संप्रार्थिताश्चापि । वस्तुतो यद् व्याकरणं वेदपाठपरायणानाम्, स्वल्पमतीनाम्, शास्त्रान्तररतानाम्, वाच्यनिरतानाभीश्वराणाम्, आलस्यपरायणानाम्, तृष्णादिसंसक्तानां वणिजाम्, लोकयात्रादौ प्रसक्तमानसव्यापाराणां च जनानामुपकारकं भवेत् तस्य कातन्त्रव्याकरणस्याध्ययनाध्यापनादिकमवश्यमेव महते कल्याणाय कल्पेत ।सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य पुराणविभागाध्यक्षेण साहित्यसंस्कृतिसंकायाध्यक्षेण च प्रो० गङ्गाधरपण्डामहोदयेन कातन्त्रव्याकरणस्य काचिद् अपूर्वता प्रतिपादिता । यत्र माहेश्वरमाहेन्द्रव्याकरणपरम्परावद् वैदिक - श्रमणधारायाः सांस्कृतिकं किञ्चिन्महत्त्वं दर्शितम् ।
आरा-विहारप्रदेशीयमगधविश्वविद्यालयस्य पूर्व-प्रो० डॉ० विद्यावतीजैनमहोदयाया व्याख्यानमासीत् कातन्त्रव्याकरणसंबद्धकतिपयदुर्लभपाण्डुलिपिविषये । यत्र पाण्डुलिपिद्वयं कातन्त्रश्रियमधिकां संवर्धयति । एकस्याः परिचयः इत्थं वर्तते -
१.श्रेणिकचरितमहाकाव्यम् -आचार्यजिनप्रभसूरिविरचितम् । अपरं नामधेयमस्ति दुर्गवृत्तिद्वयाश्रयमहाकाव्यम् । अस्मिन् कातन्त्रीयदुर्गवृत्तावुपन्यस्तान्युदाहरणानि भट्टिकाव्यशैल्यां सिद्धहैमशब्दानुशासनशैल्यां च प्रदर्शितानि अष्टादशसर्गेषु ।।
२.कलापव्याकरणसन्धिगर्भितस्तवः । आचार्यरत्नेश्वरसूरिविरचितस्त्रयोदशपद्यात्मकोऽयं वर्तते । एवं श्रूयते यदुपदेशमाध्यमेन रत्नेश्वरसूरिणा दिल्लीसुलतानफीरोजशाहतुगलकस्य विचारधारामहिंसापरायणां प्रवर्तयितुं प्रयत्नः कृत आसीत् ।।
राजेन्द्रनगर-साहिबावादस्थसमन्तभद्रमहाविद्यालयस्य पूर्वप्राचार्येण डॉ० प्रकाशचन्द्रजैनमहोदयेन शर्ववर्मप्रणीतकातन्त्रव्याकरणे वर्णविचारमधिकृत्य शोधलेखः पठितः । विदितवेदितव्यानां विदुषामिदं सुविदितमेव यत् प्रत्येकं संस्कृतव्याकरणे वर्णसमाम्नायः स्वीक्रियते, चतुर्दशमाहेश्वरसूत्राधारिते पाणिनीयव्याकरणवर्णसमाम्नाये द्वाचत्वारिंशद् वर्णाः परिगणिताः सन्ति, परं कातन्त्रीयवर्णसमाम्नाये संस्करणभेदेन सप्तचत्वारिंशत्, पञ्चाशत्, द्विपञ्चाशत्, त्रिपञ्चाशद्वा वर्णाः अभिमताः ।वैदिकव्याकरणेषु प्रातिशाख्येषु त्रिषष्टिश्चतुःषष्टिश्चापि वर्णाः पठ्यन्ते ।