________________
भूमिका
१७
संगोष्ठयाः सत्रचतुष्टये आचार्य श्रीविद्यानन्दमुनिराजमहाभागानां पावनं सांनिध्यं संगोष्ठ्याः संसिद्धये महते सौभाग्याय च संकल्पते । समवेतानां विदुषां मध्ये मध्ये कातन्त्रव्याकरणसंबद्धाः याः काश्चन समीक्षाः, टिप्पण्यः, उपयोगिता, तत्र विधेयादिकं च यत् प्रस्तुतं तत् सर्वं कातन्त्रजिज्ञासूनां शब्दविद्यारसिकानां कृते परमं प्रेरणादायकमासीत्, समवेताः सर्वे श्रोतारो विद्वांसस्तेन मन्त्रमुग्धा अभूवन् आचार्यवर्याणां मङ्गलाशीर्वचोभिरात्मानं धन्यं चामन्यन्त । उद्घाटनसत्रीय कार्यक्रमस्य शुभारम्भः श्रीलालबहादुरशास्त्रिकेन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिवर्याणां प्रो० वाचस्पतिउपाध्यायमहोदयानामध्यक्षतायां डॉ० जयकुमार उपाध्येद्वाराप्रवर्तितेन मङ्गलाचरणेन संजातः । प्रथमसत्रे सर्वप्रथममत्र सारस्वतविदुषो प्रो० जानकीप्रसादद्विवेदमहोदयस्य तिब्बतीसंस्थानसारनाथे शब्दविद्यासंकायाध्यक्षस्य कातन्त्रव्याकरणस्य विषयविवेचनापद्धतिम् आचार्यः शर्ववर्मा तदीयं कातन्त्रव्याकरणं चाधिकृत्य विस्तृतं व्याख्यानमभूत्, तदनुसारं शब्दव्युत्पादनस्य सरलसंक्षेपप्रक्रियादृशा कातन्त्रातिरिक्तं नास्ति किमप्यन्यद् व्याकरणम् । व्याकरणं भवति स्मृतिः स्मृतयश्च नियतकालाः भवन्ति । अतः पाणिनीयव्याकरणस्य हासे संजाते कदाचिद् अध्ययनाध्यापनादिक्षेत्रे कातन्त्रव्याकरणस्य महोदयः संभवेत् । विषयगाम्भीर्यदृशा व्याख्यानमिदं प्रेरकं तथ्यपरं बहुजनहितकरं विद्वन्मनोरञ्जकं चासीत् । व्याख्यानेऽस्मिन् प्राच्यभारतीयव्याकरणादिशास्त्रैः सह तुलनात्मकं समीक्षात्मकं चाध्ययनं कातन्त्रव्याकरणस्य तेन प्रस्तुतम् । इदमवश्यं ज्ञातव्यं यदद्यावधि कातन्त्रविषयकाः षड् ग्रन्थाः षोडश शोधलेखाश्च तेन लिखिताः सम्पादिताश्च प्रकाशिताः संजाताः । आख्यातकृदध्यायीयं खण्डद्वयं प्रकाशनार्थम् अवशिष्टम् । तदनन्तरं कातन्त्रव्याकरणस्य सर्वाङ्गीणः इतिहासोऽपि तेनावश्यं रचयिष्यते । तदीया एषा मान्यता वर्तते यद् यथा कातन्त्रव्याकरणरचनायाः सम्प्रेरिका आसीद् राज्ञः सातवाहनस्य काचिद् विदुषी राज्ञी, तथैव व्याकरणस्यास्य प्रचारप्रसारादावपि शब्दविद्यानुशीलनपरा काचिन्नारी एव कारणं भवेत् । भारतीयजैनसमाजेन कार्यमिदमवश्यं साधयितुं शक्यते इति मन्यते ।
द्वितीयं व्याख्यानं सारस्वतविदुषो डॉ० रामसागरमिश्रमहोदयस्य लक्ष्मणपुरस्थकेन्द्रीयसंस्कृतविद्यापीठे उपाचार्यस्य कातन्त्रव्याकरणस्य परम्परां महत्त्वं चाधिकृत्यासीत् । यत्र शारदालिपिमयस्य शिष्यहितावृत्ति - शिष्यहितान्यासनामकस्य व्याख्याद्वयस्य वैशिष्ट्यानि व्याख्यातानि । एतद्ग्रन्थद्वयं तेन सम्पादितं प्रकाशितं चापि इति हर्षस्य विषयः। कश्मीर - अफगानिस्तानदेशयोर्व्याकरणस्यास्याध्ययनादिपरिचयस्तेन महता परिश्रमेण संगृह्य संप्रस्तुतः । तृतीयः शोधलेख : ' कातन्त्रे कतिपयविचारा:' इति विषयकः पठितः प्रो० वृषभप्रसादजैनमहोदयेन लखनऊस्थ - महात्मगान्धि - अन्ताराष्ट्रियहिन्दीविश्वविद्यालयस्य
"