________________
२४६
कातन्त्रव्याकरणम्
[दु० बृ०]
श्रुवो धातोर्नुविकरणसंज्ञकः परो भवति श्रादेशश्च कर्तरि विहिते सार्वधातुके परे । शृणोति, शृण्वन् । उभयं विधेयं भौवादिकत्वाद् धिन्विकृण्व्योर्धि कृति वक्तव्यम् - धिनोति, कृणोति ।। ४८५ ।
[दु० टी०]
श्रुवः । श्रु श्रवणे । केचिद् अमूं ष्वादौ पठन्ति । नुसंनियोगेनायमादेश इति धिन्विकृण्व्योर्ध कृ चेति वक्तव्यमिति । धिन्विकृण्व्योर्नुर्भवति तत्सन्नियोगे च धिकृभावादेशौ यथासंख्यमिति । स्वमते नात्रैषोऽर्थः, 'कृवि चिरि जिरि दास द्रुह जिघांसायाम्, धिवि तृप प्रीणने ' ( ४।१७, २१) इति ष्वादित्वान्नुः सिद्ध एव “बोर्व्यञ्जनेऽये” (४ | १ | ३५ ) इति वलोपश्चानिदनुबन्धानामिति वर्जनादिदनुबन्धानामनुषङ्गः साधितः, स चान्तव्यञ्जननिमित्त इति 'निमित्ताभावे नैमित्तिकस्याप्यभावः ' (कात० परि० २७) इति भावः || ४८५ |
[वि० प० ]
श्रुवः । उभयमिति । ये तु 'श्रु श्रवणे' (१ । २७८) इति ष्वादौ पठन्ति, तन्मते पूर्वेणैव नुः सिद्धः, श्रादेश एव विधीयते । धिन्वीत्यादि । वक्तव्यं व्याख्येयम् । धिवि तृप प्रीणने । तिक तिग षघ ऋक्ष कृवि जिरि दास द्रुह जिघांसायाम् इति । अत्र ष्वादित्वान्नुः सिद्ध एव, ततो “खोर्व्यञ्जनेऽये” (४|१| ३५) इति वकारलोपः, पश्चादनुषङ्गलोपविधावनिदनुबन्धानामिति वर्जनाद् इदनुबन्धानामेवानुषङ्गो ज्ञापितः, तस्याप्यनुषङ्गत्वादेवान्त्यव्यञ्जनं निमित्तत्वमिति निमित्ताभावे नैमित्तिकस्याप्यभावो भविष्यति || ४८५
[क० च० ]
श्रुवः । प्रत्ययविधाने श्रुवः इति पञ्चमी, आदेशविधाने तु अन्वर्थवशात् षष्ठी । शृ चेति प्रत्ययान्तरविधानं नाशङ्क्यते, सम्बन्धस्य प्रयोक्तुरधीनत्वात् । " खोर्व्यञ्जनेऽये " (४।१।३५) इति वलोप इति पक्षी । तत्कथं संगच्छते, परत्वात्, “च्छ्वोः शूटौ पञ्चमे च” (४।१।५६) इति ऊटा भवितव्यम् । न च कृत्प्रत्यय एव तस्य विषय इति वाच्यम्, दुद्यूषतीत्यसिद्धेः । तथा च खवधातोः खौनातीति प्रयोगो धातुवृत्ताविष्टत्वादिति कुलचन्द्रः । महान्तस्तु छकारसाहचर्याद् वकारस्यापि कृत्प्रत्यय एवायं विधिरिति । लोपविधिस्तु सामान्येनैवेष्यते । तथा च धातुप्रदीपः - क्र्यादौ ' खच प्रादुर्भावि' इति चान्त एव, खचितमिति प्रयोगदर्शनात् । ये तु वकारान्तं पठन्ति तन्मते