________________
२३०
कातन्त्रव्याकरणम्
आत्मनेपदिनः कथं परस्मैपदम् इत्याह - आत्मनेपदमप्यस्तीति । अद्यतन्यामाकृतिगणत्वात् परस्मैपदं भवति, आत्मनेपदमपि न्यायादस्तीत्यर्थः । अर्तेरपि समाष्टं । “समो गच्छति०" (अ० १।३।२९) इत्यादिना आत्मनेपदम्, सिच्, वृद्धिश्च ।
केचिद् इहाणमिच्छन्ति - समारत | तेनार्तेरप्यात्मनेपदे विभाषा सिद्धा | 'इरनुबन्धाद् वा वक्तव्यम्' इति । वक्तव्यम् = व्याख्येयम् । चकारोऽनुक्तसमुच्चयार्थः। 'रुघिर आवरणे' (६।१)। आत्मनेपदे तु सिजेव-अरुद्ध । जृश्वीत्यादि । 'जूष झष वयोहानी' (३।१८) । अर्तिसर्यो:वर्णस्योपलक्षणत्वाद् गुणः । 'टु ओ शिव गतिवृत्योः ' (१।६१६) । श्वयतेरत्वं सिचि, शिवजाग्रोर्गुणः, श्वयतेरण चणा सिजिति रूपत्रयम् । स्तन्भुः सौत्रो धातुः। उकारः "उदनुबन्यपूक्लिशां क्वि" (४।६।८४) इति विशेषणार्थः । “अनिदनुबन्धानाम्" (३।६।१) इति नलोपः । 'सूचु म्लुचु गती, सूचु ग्लूचु कुजु खुजु स्तेये, ग्लुन्बु षसज् गतौ' (१।४९, ५०, ४९) इति कश्चित् पठति। स न पठितव्योऽनेकार्थत्वाद् धातूनाम् । इत्याह – स्तेये गतावपि वर्तते इति । ग्लुन्चेस्तु अग्लुञ्चीदिति रूपत्रयं सिद्धम् । उभयोरुपादानसामर्थ्यादनुषङ्गलोपाभाव इति वर्ण्यते कैश्चित् । तदप्रमाणम् । ग्लुचि (ग्रुचि) पाठोऽपि तथैव । न हि ‘अग्लुचत्' इत्यादृतम् ।
प्रभृतीनां कर्तर्यात्मनेपदेऽपि अण् वेति कश्चिद् आह- 'व्यत्यजीट, व्यत्यजरत' इति सन्दिग्धमेतत् ।। ४७८
[वि० प०]
पुषादि० । 'गृधु अभिकाङ्क्षायाम्' (३।८०) यावदिति । ततो वृत्करणादित्यर्थः । एतेन देवादिकपुषादेर्ग्रहणमिति दर्शितम् । तथाहि- 'पुष पुष्टी, मूष स्तेये, खब भूतिप्रादुभवि' (१।२२८; २१८; ८।५०) इति । यद्यस्य क्रैयादिकस्य पुषादेग्रहणमभिप्रेयात् तदा पुषादिग्रहणमपनीय स्वल्पत्वाद् लकारानुबन्धानेवामून् विदध्यात् । किमिह व्याप्त्यर्थेन पुषादिग्रहणेनेति तर्हि भौवादिकस्य पुषादेः कथन्न ग्रहणम् । 'पुष पुष्टौ, त्रिषु श्लिषु प्रषु प्लषु उष दाहे' (१।२२८, २२९) इत्यादयो बहवो नानानुबन्धाश्च दृश्यन्ते । न तेषां लकारानुबन्धत्वं शक्यते वक्तुम्, न च तथापि लाघवमस्ति, तत्कृतस्यैव गौरवस्य सम्भवात् ? तदयुक्तम् | "इणस्थादापिबति०" (३।४।९३) इत्यादिना स्थापिबत्योः सिचो लुविधानाद् एतौ हि भौवादिके पुषादौ पठ्येते । यदि तस्येह ग्रहणं स्यात् तदा सिजपवादेनाभ्यामणा भवितव्यमिति असतः सिचो लुक् कथम् उपपद्येत । किञ्च यदि भौवादिकस्य पुषादेर्ग्रहणं स्यात् तदा द्युतादेरपि तत्रैव पठितत्वादलं धुतादिग्रहणेन, पुषादित्वेनैव सिद्धत्वादिति, तस्मात् किं पुष्यति इति यणा निर्देशन देवादिकपरिग्रहणार्थेनेति भावः ।