________________
२३१
तृतीये आख्याताध्याये बितीयः प्रत्ययपादः अघसदिति । “अदेर्घस्लृ सनयतन्योः" (३।४।७९) इति कृते पश्चाद् तृकारानुबन्धत्वादण् । 'अ स गतौ' (२।७४) इति अर्ति, सर्तीति । यद्यपि धातुनिर्देशमात्रे इश्तिपौ, विशेषाविवक्षायां च विकरणो न भवति, तथाप्यनयोलुंग्विकरणयोरेव ग्रहणं शास्तिना साहचर्यात् “अर्तिसयोरणि" (३।६।११) इति गुणे कृते पश्चादतेरवर्णस्याकारः । 'सृ गतौ, अप्रापणे' (१।२७४, २७५) चेति भौवादिकयोः सिजेवआर्षीत्, असार्षीत् । 'अशिषत्' इति । "शासेरिदुपधाया अण्व्यानयोः" (३।४।४८) इतीत्त्वे "शासिवसिघसीनां च" (३।८।२७) इति षत्वम् । ननु द्युतादीनामात्मनेपदित्वात् परस्मैपदमनुपपन्नम् ? सत्यम् । अत एव परस्मैपदेऽविधानसामर्थ्याद् रुचादेराकृतिगणत्वाद् वा द्युतादिभ्योऽद्यतन्याः परस्मैपदमस्ति, आत्मनेपदिषु पाठादात्मनेपदमित्याह - द्युतादीनामित्यादि । इरनुबन्धाद् वेति वक्तव्यं व्याख्येयम् । इह चकारस्यानुक्तसमुच्चयार्थत्वादिति । 'रुधिर् आवरणे' (६।१)। 'अरौत्सीत्' इति । "व्यानान्तानामनिटा" (३।६।७) इति वृद्धिः । जृश्वीत्यादि । “अर्तिसोरणि" (३।६।११) इत्यत्र ऋवर्णस्योपलक्षणत्वात् जीर्यतेरपि गुणः । अजारीदिति । "सिदि परस्मै स्वरान्तानाम्" (३।६।६) इति वृद्धिः । “इटश्चेटि" (३।६।५३) सिचो लोपः । अश्वदिति । श्वेरद् वक्तव्यम् इति वचनादिकारस्यात्वम्, असन्ध्यक्षरविधिः । 'अस्तभत्' इति । अनिदनुबन्धत्वादनुषङ्गलोपः । 'वञ्च चञ्चु तञ्च त्वञ्चु' इत्यादि दण्डकधातुपठितौ मुचु म्लुचु इति गत्यर्थो । अग्लुचदिति । ग्रुचु ग्लुचु कुजु खुजु स्तेयकरणे इति स्तेयार्थः । अत्र ग्लुन्चिमपि गत्यर्थं केचित् पठन्ति । अग्लुचदिति गतौ सिद्धम् । इह पुनः स्तेयार्थस्यैव ग्लुचेरुपादानाद् गतावयं प्रयोगो न स्यादित्याह - स्तेये गतावपि वर्तते इति । एतत् पुनरनेकार्थत्वाद् धातूनाम् इति । ग्लुन्चेस्तु अग्लुञ्चीदिति सिचि भवितव्यमिति रूपत्रयम् ।।४७८।
[क० च०]
पुषादि० । ‘सकृदुच्चारितः शब्दः सकृदर्थं गमयति' (द्र०, व्या० पा० ६१) इति न्यायाद् गणत्रितयपुषादीनां न ग्रहणम् । अन्येषामपि ग्रहणं न कथं स्यादित्याह - तथाहीत्यादि । 'वृङ् संभक्तौ' (८।५१) इति तु न पठितं तस्यात्मनेपदित्वात् सिचो लुग्विधानात् । न च लोपविधानसामर्थ्याद् विकल्प इति वाच्यम्, अन्यथोपपत्तौ विकल्पस्यानौचित्यात् । अथ यदि दैवादिकस्य पुषादेर्ग्रहणं भविष्यति तदा पुष्यतीत्येव निर्दिशेद् इत्याह – किं चेति । अलं धुतादिग्रहणेनेति । ननु कथमेतत्, यावता द्युतादेः