________________
कातन्त्रव्याकरणम्
६) । एभ्यः शिडन्तत्वात् सणि प्राप्ते, 'तृप प्रीणने, दृप हर्षणमोचनयो:' ( ३ | ३५, ३६) इति पुषादित्वादणि प्राप्ते इत्याह- पक्ष इत्यादि । स्पृशमृशकृषतृपदृपां वा अकारागमः इति । अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत् । अम्राक्षीत्, अमार्क्षीत्, अमृक्षत् । अक्राक्षीत्, अकार्क्षीत्, अकृक्षत् । अत्राप्सीत्, अतासत्, अतृपत् । अद्राप्सीत्, अदासीत्, अदृपद् इति रूपत्रयं भवति || ४७४ |
[वि० प०]
सिच्० । अनैषीत्, अपाक्षीदिति । ' णीञ् प्रापणे, डु पचष् पाके' (१।६००, ६०३) एकत्र " सिचि परस्मै स्वरान्तानाम् " ( ३ | ६ | ६) इति वृद्धि:, अन्यत्र “ अस्य च दीर्घः " (३|६|८), "चवर्गस्य किरसवर्णे” (३।६।५५) इति कत्वम् । “अड् धात्वादिर्ह्यस्तन्यबतनी" (३ | ८ | १६) इत्यादिनोभयत्राडागमः, “ सिच०" (३/६/९) इतीट् । व्यवस्थितेत्यादि । सिचि "व्यञ्जनान्तानामनिटाम् ” ( ३ ! ६ । ७) इति वृद्धि:, “छशोश्च” (३ | ६ |६०) इति षत्वम्, तथा " षढाः कः से" ( ३ |८|४) इति ककारः, पक्षे शिङन्तात् सण् इति । 'छुप स्पृश संस्पर्शे, मृश आमर्शने, कृष विलेखने' (५/५४, ५८, ६) इत्येतेभ्यः शिडन्तत्वाद् वक्ष्यमाणवचनेन सण् इत्यर्थः । तथा तृप प्रीणने, दृप हर्षणमोचनयो:' ( ३ | ३५, ३६ ) इति अतासीत्, अदासीत् । अणि तु अतृपत्, अदृपदिति । अकारागमविधौ “स्पृशादीनां वा" इति वक्ष्यति । तेन अस्प्राक्षीत्, अद्राक्षीत्' इत्यादि रूपत्रयं सिद्धम् ||४७४ |
[क० च०]
सिच्० । सिजित्यत्र “चवर्गदृगादीनां च " (२।३।४८) इति कथं न गत्वम् ? सत्यम् । दृगादीनां क्विबन्तेन साहचर्याच्चवर्गस्यापि क्विबन्तस्यैव ग्रहणमिति श्रीपतिः वस्तुतस्तु अत एव ज्ञापकात् क्विबन्तस्यैव गत्वम् । तेन 'तच्श्लक्ष्ण:' इत्यादौ न गत्वम् | वृत्तौ धातोरिति यदुक्तं तत्तु धातोर्विहितत्वात् सिच आदीडागमार्थम् । ननु आमन्तात् सिजनुप्रयुज्यतेऽद्यतन्यां परतः इत्यर्थः कथन्न स्यात् ? नैवम् | अद्यतन्यामामन्तोऽसम्भवात् । अत एव ज्ञापकाद् आम् इति चेत्, न । अन्यथोपपत्तौ ज्ञापककल्पनानौचित्यात् । व्यवस्थित इत्यादि वृत्तिः । उषविदेत्यादिसूत्रात् मण्डूकप्लुत्या वाऽनुवर्तते, तेन व्यवस्थितविभाषेति ज्ञायते । तेन स्पृशादिभ्यः सणनिटः इत्यादिना विकल्पे सण् भवति, तृपिदृप्योश्च पुषादित्वाद् विकल्पे अण् भवति । अन्येभ्यस्तु नित्यम्, तृपिदृप्योर्वेत्युदाहरणमशुद्धं वर्णयन्ति टीकापञ्ज्योरुक्तार्थत्वात् ॥ ४७४ ।
२१८