________________
२०५
तृतीये आख्याताप्याये द्वितीयः प्रत्ययपादः [दु० वृ०]
'दय्-अय्-आस्' एभ्य आम् परो भवति परोक्षायां परभूतायाम् । दयाञ्चक्रे, पलायाञ्चक्रे, आसाञ्चक्रे ।।४६८।
[दु० टी०]
दय् । 'दय दानगतिहिंसादानेषु च, अय बय मय इत्यादि गतौ' (१।४०८, ४०६) । पराशब्दस्योपसर्गस्यायतौ लत्वम् । आस् उपवेशने । पृथग्योगः सुखप्रतिपत्त्यर्थ एव ।।४६८।
[वि० प०]
दय् | पलायाञ्चक्रे इति । परापूर्वोऽयवयेत्यादिदण्डको धातुः। तस्मिन्नुपसर्गस्यायतौ इति रेफस्य लत्वम् ।।४६८।
[क० च०]
दय० । दययोर्लघूपधयोः साहचर्याद् आङ्तर्वस्यास्तेर्ग्रहणं कथं न स्यात् ? सत्यम् । आत्मनेपदिनोः साहचर्याद् आसेरेव ग्रहणम्, असेरात्मनेपदित्वात् । असो लघूपधत्वेन कथं साहचर्यं न गृह्यते ? चेत्, न, आम्नायविरुद्धत्वात् । अनिष्टत्वाच्च साहचर्यमिष्टार्थमेव । ‘दय' इत्यकारान्तपाठाद् याधातु शक्यते, व्यञ्जनान्तधातुप्रस्तावाद् वा ।।४६८।
[समीक्षा]
'दयाञ्चक्रे, पलायाञ्चक्रे, आसाञ्चक्रे' शब्दरूपों के सिध्यर्थ 'दय-अय्-आस्' धातुओं से आम् प्रत्यय की आवश्यकता होती है। कातन्त्रकार तथा पाणिनि दोनों ने ही एतदर्थ प्रायः समान सूत्रों की रचना की है | पाणिनि का सूत्र है"दयायासश्च" (अ० ३।१।३७)। कातन्त्रकार ने व्यञ्जनान्त धातुप्रस्ताव को आधार मानकर 'दययासश्च' यह सूत्रपाठ किया है, जब कि पाणिनि अकारान्त धातुप्रस्ताव के आधार पर 'दयायासश्च' पाठ को स्वीकार करते हैं।
[विशेष वचन] १. पृथग्योगः सुखप्रतिपत्त्यर्थ एव (दु० टी०)। २. परापूर्वोऽयवयेत्यादिदण्डको धातुः (वि० प०)।
३. असो लघूपधत्वेन कथं साहचर्यं न गृह्यते ? चेत्, न | आम्नायविरुद्धत्वात् । अनिष्टत्वाच्च साहचर्यमिष्टार्थमेव । दय इति अकारान्तपाठाद् याधातु शक्यते, व्यञ्जनान्तधातुप्रस्तावाद् वा (क० च०)।