________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
"
१९९
[दु० बृ० ]
ते सन्नाद्यन्ता धातुसंज्ञा भवन्ति । जुगुप्सते, मीमांसते, चिकीर्षति, पुत्रीयति, पुत्रकाम्यति, श्येनायते उपवीणयति, कारयति, चोरयति, पापच्यते, गोपायति, ऋतीयते कामयते । धातुत्वाद् धातुमशुद्धक्रियत्वाद् वचनम् । इतरेषां गणेऽप्रसिद्धत्वात् सुखार्थम् ||४६६ |
[दु० टी० ]
1
धातवः । विधिर्विधानं विधिभाजां सम्भवे तदन्तविधिरुपलभ्यते । इहापि प्रकृता धातुसंज्ञा सन्नादयश्च सर्वमस्ति धातोर्नाम्नश्च विधीयमानत्वात् तदपेक्षया तत्र तदन्तविधिः सिद्ध एवेत्याह- ते सन्नाद्यन्ता इति । 'ऋतीयते कामयते' इति प्रसिद्धिवशादुहाहतम् । ननु किमर्थमिदं वचनम्, तथाहि प्रकृत्यर्थोपसर्जने प्रत्ययाः सन्नादयः परिगृह्यन्ते। अनिर्दिष्टार्थाश्च प्रकृत्यर्थमात्र एव नामार्थोपसर्जने धात्वर्थे विधीयन्ते यिन्नादयः, ते प्रत्ययार्थस्य प्राधान्याद् धात्वर्थोपनिपातिनः एवेति सर्वेषां क्रियाभावत्वमस्तीति चोदयन् परिहारमाह- अशुद्धक्रियत्वादिति । यिन्नादीनामिति संबन्धः। अशुद्धक्रियाणां भावोऽशुद्धक्रियत्वम्, तस्माद् वचनम् । यथा पच्यते पाक इति साध्यतासिद्धतालक्षणायां क्रियायां न भवतीत्युक्तम्, तथेहापीत्यर्थः ।
इतरेषामिति यद्यपि चिकीर्षादीनां क्रियाद्वयम्, तथापि समुदायस्य संज्ञा युक्तार्थत्वाद् भ्वादयो हि धातुत्वेन सिद्धाः । एते बालानामप्रसिद्धा इति वचनम् । ननु धातुशब्दोऽयं संज्ञात्वेन निर्दिष्टः, अतः संज्ञित्वात् संज्ञिन एव प्रतिपादयेत् । ते धातवो भवन्ति चिकीर्षत्यादिरूपेण विवर्तन्ते इति । नैवम्, एकत्र संज्ञा निर्दिष्टा सैवार्थान्तरेऽपि दृश्यते लोके । यथा वटुर्देवदत्तः, शूद्रोऽपि देवदत्त इति । यद्यपि संज्ञासूत्रमिदम्, तथापि क्रियाभावो धातुस्तदनन्तरं सन्नाद्या इति न कृतम् | सन्नादीनां हीयत्ता न परिच्छिद्यते । अथ ते धातवः क्रियाभावो धातुश्चेत्युच्यताम् । एवमपि क्रियाभावानामनुकान्तानां गुपादीनामेव धातुसंज्ञा स्यात् । कश्चिद् आदेशं वर्णयति 'सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः' इति न्यायाद् इषेः करोतेश्च प्रसङ्गे चिकीर्षाशब्दः आदेशो वा सनाद्यन्ता धातुवद् भवन्तीति । तथा सामान्यमेवातिदिश्यते । विशेषातिदेशे पुनर्दिवादिभ्यो यन्निति चैवमाद्यपि रानन्तानां स्यात् । एकदेशपक्षः ( एकदेशातिदेशपक्षः) पुनरपपक्ष एव धातोर्यद्येकदेशस्य धातुत्वं स्यात् तर्हि पुत्रीयतीत्येवमादिषु न सिध्यति || ४६६।