________________
कातन्त्रव्याकरणम् स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषान् न जनौघजन्यान् ।
आकर्णयामास न वेदनादान चोपलेभे वणिजां पणायाः॥ प्रत्ययान्तत्वादः स्त्रियाम् । न च पणिपन्योः कृतार्थमनुदात्तानुबन्धत्वमसार्वधातुके यदायो नास्ति तदा कथमत्र आत्मनेपदम् ? नैवम्, स्वार्थिको यथा प्रकृत्यर्थानुप्रवेशेन धातोस्तद्गतमर्थं लभते, एवमनुदात्तानुबन्धत्वमपीति । अथवा शेषो हि तत्र लक्षणशेष इह चानुदात्तत्वं प्रकृत्याश्रयमस्ति, तत्राशेषत्वान्न परस्मैपदम् । व्यवधानाच्च नात्मनेपदमस्ति, तत्र परस्मैपदस्य निमित्तमेव नास्ति । आत्मनेपदस्य व्यवहितत्वमपि तावदस्तीति तदेव भवंति । ऋतेीयङ् वक्तव्य इति । वक्तव्यो व्याख्येयः । 'ऋतीयङ् धातुघृणायाम्' । ऋतीया इति "गुरोश्च निष्ठासेटः" (४।५।८१) इत्यप्रत्ययः । ऋतीयाचक्रे इति चुलुप्पाञ्चकार इतिवद् भविष्यति । ऋतधातुः सार्वधातुके न दृश्यते । "कमेरिनङ्" इति कामिनङ् धातुः कान्तौ । नकारानुबन्धसामर्थ्याद् इनो यत् कार्य तदीप्सितव्यम्, तेन कारितत्वाद् इनो लोपः सिद्ध:-काम्यते इति । इटि तु न भवति - कामयिता । इन्यसमानलोपोपधाया ह्रस्वश्चणि ह्रस्वः - अचीकमत् । 'कामयाञ्चक्रे' इत्यपि भवति । कमिस्तु सार्वधातुके न दृश्यते । व्यवस्थितेत्यादि । एवं सति आय एव परिशिष्यते असार्वधातुके इति विषयसप्तमी | निमित्तानाश्रयणाद् उपदेश एवाय इति शंसिप्रत्ययादप्रत्ययो भवति ।आयाभावपक्षे तु स्त्रियां क्तिरिति ।अर्त्तिता,कमितेति धात्वन्तरेण सिद्धम् ||४६५ |
[वि० प०]
गुपू० । स्वार्थ इत्यनिर्दिष्टार्थत्वात् स्वार्थे भवति । क्रियासमभिहारोऽपीह न स्मर्यते इष्टत्वादिति । पनीत्यादि । पणिः स्तुतिव्यवहारयोः पनिः स्तुतावेव पठ्यते । यदाह गणे पण व्यवहारे स्तुतौ च, पन च' इति (१।४०१, ४०२)। तत्र चकारेणानन्तरत्वात् स्तुतिरनुकृष्यते । तेषां मते व्यवहारार्थस्य पणेरायो न भवति, शतस्य पणते इत्येव भवति । अयं तु व्यवहारादिप्यायप्रत्ययं मन्यते । तथा च भट्टिकाव्ये - 'न चोपलेभे वणिजां पणायाः' इति वाणिजिकान् व्यवहारान् क्रयविक्रयलक्षणान्नोपलब्धवानित्यर्थः । ऋतेर्णीय इति । वक्तव्य इति । वक्तव्यो व्याख्येयः । घृणायामर्थे ऋतीयङ् इति धात्वन्तरम् इति भावः । ऋतधातोश्च सार्वधातुके नाभिधीयते प्रयोगः । कमेरिनङ् इति इहापि कामिनङ् धातुः कान्तौ वेदितव्यः ।
यद्येवम् , कारितव्यपदेशाभावात् काम्यते इत्यादौ “कारितस्यानामिड् विकरणे" (३।६।४४) इति कारितलोप : कथमिति चेत् ? सत्यम् । नकारानुबन्ध इन्कार्य