________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१९१ अधिश्रयणादीनामिति । अधिश्रयणं चुल्लीमस्तके स्थाल्यारोपणमादिर्येषां तुषवुषप्रक्षेपणादीनां ते तथोक्ताः । भृशता | यौगपद्येन शीघ्रमनुष्ठानमित्यर्थः । फलातिरेको वेति मतान्तरमनेन दर्शितम् । कश्चित् फलातिरेकमपि भृशतां मन्यते । अधिश्रयणादीनां यत् साध्यं फलं कर्तुर्विवक्षितं तस्यातिरेको भृशता इत्यर्थः । व्यवस्थितेत्यादि । ऋप्रभृतिभ्यश्चेति इति विशेषः । स्वरादित्वान्न प्राप्नोति । अरार्यते इति । “अर्तेश्चक्रीयिते च" इति गुण :, ततः “स्वरादेर्द्वितीयस्य" (३ । ३ । २) इति य-शब्दस्य द्विर्वचने अभ्यासकार्यं चेति । तथा अटाट्यते, अशाश्यते, प्रोर्णोनूयते । प्रपूर्वः 'ऊर्गुञ् आच्छादने' (२।६४) । अत्रापि "स्वरादेर्दितीयस्य" (३।३।२) इति नुशब्दस्य द्विर्वचनम्, रेफस्य न द्विरुच्यते । “न नबदराः संयोगादयोऽये" (३।३।३) इति प्रतिषेधात् । “नाम्यन्तानां यणायि०" (३।४।७०) इत्यादिना दीर्घः । ‘सोसूच्यते' इति । 'सूच पैशुन्ये' (९।१९१) इत्यादि चुरादाविनि कृते सत्यनेकस्वरत्वान्न प्राप्नोति । वाशब्देन संग्रह उच्यते । चंक्रम्यते इति । "कवर्गस्य चवर्गः'' (३।३।१३) इति कृते "अभ्यासस्यान्तोऽनुस्वारोऽनुनासिकान्तस्य" इत्यनुस्वारागमः । लुपादेर्गादिति गार्थविषयत्वात् लुपादिरपि गर्दा उक्तः । 'लोलुप्यते' इति "गुणश्चेक्रीयिते" (३।३।२८) इति गुणः । एवमिति भृशं पुनः पुनर्वा गर्हितं सीदतीत्यादि वाक्यमित्यर्थः । चंचूर्यते इति । "चरफलोरुच्च" (३।३।३३) इत्यनुस्वारः, परस्याकारस्योत्वं च "नामिनो वोः" (३।८।१४) इत्यादिना दीर्घः । जंजप्यते इत्यादीनां चतुर्णा जपादीनां चेत्यनुस्वारः । निजेगिल्यते इति । निपूर्वो गृ निगरणे, यशब्दः । “मृदन्तस्येरगुणे" (३।५।४२) इतीर् । द्विर्वचने "गिरतेश्वकीपिते" (३।६।९८) इति लत्वम् ।। ४६४।
[क० च०]
धातोर्य० । धातुग्रहणं धातुपरिमाणार्थम्, तेन सोपसर्गान्न भवति चेत्, धातुरेव क्रियासमभिहारे वर्तते नोपसर्ग इति तत् किं धातुग्रहणेन ? तर्हि नाम्नोऽपि स्यादिति चेत्, न । क्रियासमभिहारे तस्य वृत्तेरभावात्, नैवम् । धातुग्रहणाभावे "इन् कारितं धात्वर्थे" (३।२।९) इतिवत् नाम्नोऽपि क्रियासमभिहारार्थत्वात् । अथ तथापि नाम्नो न भविष्यति “वशेश्चक्रीयिते" (३।४।१८) इत्यनेन सम्प्रसारणनिषेधात् । “चेक्रीयिते च" (३।४।७६) इत्यनेन अर्तेर्गुणविधानाच्च । नैवम्, ज्ञापकेन किमिह प्रत्याख्यातुं न शक्यते, किन्तु क्रियाग्रहणाभावे साधनसमभिहारेऽपि यशब्दः स्यात्, तन्निरासार्थं क्रियाग्रहणं कथं गौणक्रियार्थं भविष्यतीति धातुग्रहणं वाच्यम् । यद्यत्र "घातोर्वा तुमन्तात्" (३।२।४) इत्यादित इह धात्वधिकार इष्यते, तदा तत्रैव वाशब्दात् कुत्र किं खण्डयितुं न शक्यते इति । यङिति कृते “कर्तरि रुचादि०" (३।२।४२) इत्यादिना