________________
१९०
कातन्त्रव्याकरणम्
स्यध्वनि गतागतं करोति, स एवमुच्यते । वृत्तिवाक्ययोभिन्नार्थत्वाद् वृत्त्या वाक्यं न शक्यते निवर्तयितुम् । तथा ह्येकदैकपथं गच्छन् सर्पो गतिविशेषात् कुटिलं क्रामतीत्युच्यते । कथं परो नित्यग्रहणमाचष्टे | जङ्गम्यते इति जङ्गमः। पचाद्यच, स्थावरविरहपक्षमात्रमभिधत्ते रूढिशब्दत्वात् । लुपादेर्गादिति । लुप् - सद - चर - जप - जभ - दह - दन्श् - गृभ्य एव विधानम् । परन्तु दन्शि कृतनलोपं निर्दिशति दंदशीति , चेक्रीयितलुक्यपि यथा स्यादिति । गर्हितार्थाभिधायित्वात लुपादेरपि गर्दा उच्यते । केचिद् अनयोर्योगयोः क्रियासमभिहारं नानुवर्तयन्ति । 'येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाधकः' (का० परि० ४२) इति भृशं क्रामति, भृशं लुम्पतीति यो न भवति । भाष्यकारस्त्वेतावपि योगावनर्थकावभिधानादित्याचष्टे । कथं लुनीहि लुनीहि इत्येवायं लुनातीति व्यञ्जनादेरेकस्वरात् परो यशब्दः प्राप्नोतीति ? नैष दोषः, विभाषया यशब्दस्य विधानात् कथं स भवान् लोलूयस्व लोलूयस्व इत्येवायं लोलूयते इति क्रियासमभिहारे मध्यमैकवचनं भवति पञ्चम्या इति । एवं तर्हि क्रियाविशेषे स्वार्थे यशब्दोऽन्तरङ्ग : कर्तकर्मणोश्च हिस्वौ बहिरङगाविति पश्चात प्रवर्तेते, तदा आभीक्षण्यद्योतनाय च द्विर्वचनं भवति । धातोर्यङिति सिद्धे चेक्रीयितग्रहणं पूर्वाचार्यसंज्ञाविर्भावनार्थम् ।। ४६४ ।
[वि० ५०]
धातोर्य:० । पापच्यते इति "चण् परोक्षा०" (३।३।७) इत्यादिना द्विर्वचनम् अभ्यासलोपः, “दीर्घोऽनागमस्य" (३।३।२९) इति दीर्घः, “चेक्रीयितान्तात्" (३।२।४३) इत्यात्मनेपदम् । समभिहरणं समभिहारः, क्रियायाः समभिहारः क्रियासमभिहारः इति षष्ठीसमासः । ननु समभिहारो हि विप्रकीर्णानां द्रव्याणामेकत्र राशीभाव उच्यते । क्रियाश्चोत्पन्नप्रध्वंसित्वादनवस्थायिन्यः, तत्कथं तासां समभिहार : उच्यते ? सत्यम्, समभिहारसादृश्यात् क्रियासमभिहार उच्यते । यथा समाहतानां द्रव्याणां द्रव्यान्तरैरव्यवधानं समभिहारः, एवं क्रियाणामपि क्रियान्तरैरव्यवहितत्वात् क्रियासमभिहार उच्यते । क्रिया च द्विविधा - प्रधानभूता अप्रधानभूता च । तत्र यः क्रियान्तरमनारभमाण : प्रधानभूतं पाकमेव पुनः पुनः समारभते, सः प्रधानभूताः क्रिया: समभिहरतीति, तदा तासां पौन पुन्यं समभिहारः । यः पुनरधिश्रयणादीगुणक्रिया: क्रियान्तरैरव्यवहिताः साकल्येन करोति, स गुणक्रियाः समभिहरतीति, तदा तासां भृशता समभिहारः । क्रियाग्रहणं क्रियामात्रसमभिहारप्रतिपत्त्यर्थम्, अन्यथा धातोः साधने वृत्त्यभावात् क्रियाया एव समभिहारो गम्यते, तेनोभयत्रापि समभिहार उच्यते, न तु गौणमुख्यचिन्तेत्याह – 'पाकादीनामित्यादि । प्राधान्यं पुनः पाकादिक्रियाणां सकलकारकप्रकृतेस्तादर्थ्यात् ।