________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१८९ भृशं ज्वलति जाज्वल्यते । पाकादीनां प्रधानक्रियाणां पौन पुन्यम् । प्रधानक्रियोपकारकाणामधिश्रयणादीनां च भृशता फलातिरेको वा । व्यवस्थितवास्मरणादेकस्वरात्, तेन पुनः पुनर्जागर्ति । ऋप्रभृतिभ्यश्च - अरार्यते, अटाट्यते । अश भोजने - अशाश्यते, प्रोर्णोनूयते, सोसूच्यते, मोमूत्र्यते । शुभिरुचिभ्यां स्यात् -भृशं शोभते, भृशं रोचते | गत्यर्थात् कौटिल्य एव-भृशं पुनः पुनर्वा कुटिलं क्रामति चंक्रम्यते । लुपादेर्गात् – भृशं पुनः पुनर्वा गर्हितं लुम्पति लोलुप्यते । एवं सासद्यते, चंचूर्यते, जंजभ्यते, दंदश्यते, जंजप्यते, दंदह्यते, निजेगिल्यते ।। ४६४।
[दु० टी०]
धातोः । समभिपूर्वाद् हरते वे घञ् । सम् - शब्दः साकल्ये, अभिराभिमुख्ये, हरतिर्देशान्तरप्रापणे । तेनायमर्थः-बढ्यः क्रिया अनेककर्तृसाधनयोग्या यदाभिमुख्येन करिमेकं निष्पतन्ति, तदा क्रियासमभिहार उच्यते । यदाप्येका क्रियाऽवयवक्रिया अधिश्रयणादयो बहव्य इति समभिहारो न विरुध्यते । येषां यदर्थं प्रति प्रवृत्तिः, तेषां तं प्रति अवयवत्वं दृष्टम्, यथा घटं कपालानामिति । पुनः पुनरिति यः कर्ता क्रियान्तरमनारभ्य पाकमेव पुनः पुनरारभते, स प्रधानक्रियां समभिहरति । अनेककालव्यापारं परिगृह्य एकत्वेऽपि क्रियाभेदपरिकल्पनेन समभिहारो दर्शितः । भृशमत्यर्थमिति । अधिश्रयणादीगुणक्रियाः क्रियान्तरैर्न व्यवधत्ते कर्ता तास्ताश्च साकल्येन करोति, स गुणक्रियां समभिहरतीति द्विविधः समभिहारः । क्रियाग्रहणाभयरूपेऽपि भविष्यति, न च धातोः साधनसमभिहारे वृत्तिरस्ति । फलातिरेको वेति । अन्ये तु फलातिरेकमपि भृशतां वर्णयन्ति न चात्र पौनःपुन्ये समभिहारार्थतायां वा द्विर्वचनं भवति । पदनिबन्धनत्वात् तस्य धातुमात्रोपादानस्येह समभिहारस्य विवक्षितत्वाच्च । धातुग्रहणं किमर्थम्, सोपसर्गान्मा भूत् - प्राटति भृशमिति । नैवम्, क्रियासमभिहाराभिधानं धातोरेव संभवति । प्रादयश्च क्रियाविशेषस्य द्योतका इति । न च नाम्नः प्रकृत्यर्थविशेषणाभावे प्रत्ययार्थविशेषणाकल्पना स्यात् । तर्हि क्रियाग्रहणस्य चरितार्थत्वाद् गुणाक्रेयासमभिहारे न प्राप्नोति । व्यवस्थितवाधिकारादिति, अभिधानाद् वा ।
भाष्यकारोऽप्याह - एकाजूहलादिग्रहणानर्थक्यं समभिहारे यविधावनेकाचो हलादे भिधानादिति । तच्चावश्यमभिधानमाश्रयतिव्यम् । अहँटत्यश्नात्यूर्णसूचिसूत्रिमूत्रिभ्यश्च दर्शनाद् भृशमृच्छति, इयर्ति इति वा । ‘अटति, अश्नाति, ऊर्णोति, सूचयति, सूत्रयति, मूत्रयति' इति योज्यम् । शुभिरुचिभ्यां न स्यादिति । न हि शोशुभ्यते, रोरुच्यते इत्यभिधानमस्ति । गत्यर्थात् कौटिल्ये एवेति एवकारः कौटिल्यादन्यत्र निषेधार्थस्तेन क्रियासमभिहारमात्रे न भवति । चंक्रम्यते इति । योऽल्पीय