________________
१९२
कातन्त्रव्याकरणम् आत्मनेपदे सिद्धे चेक्रीयितान्तादित्यपि न कृतं भवति चेक्रीयितग्रहणं केवलं पूर्वाचार्यप्रसिद्धसंज्ञाविर्भावार्थमित्युक्तमिति टीका । इहापि यकारस्य सस्वरार्थं शब्दग्रहणम्, तेन अरार्यते इति द्विर्वचनं सिद्धम् ।
ननु “धातोरेकाचो हलादेः क्रियासमभिहारे यङ्" (अ०३।१।२२) इति पाणिनिः। तदभावादस्मन्मतेऽनेकस्वरादपि यशब्दः स्यादित्याह – व्यवस्थितेत्यादि वृत्तिः। तेन जागृधातोरनेकस्वरत्वान्न भवतीति भावः । ननु पूर्वसूत्रे व्यञ्जनादिग्रहणमिहार्थमित्युक्तम् । अतः ऋप्रभृतीनामूर्णोतेश्च स्वरादित्वादनेकस्वरत्वाच्च । 'सूच पैशुन्ये, सूत्र अवमोचने, मूत्र प्रस्रवणे' (९।१९१, २२१, २२२) इति त्रयाणां च चुरादित्वादिनि कृतेऽनेकस्वरत्वादप्राप्तौ भाष्यकृता “अभिधानादनेकाचो हलादेः' इत्युक्तम्, स्वमतेऽप्यभिधानादेव भविष्यतीत्याह – ऋप्रभृतिभ्यश्चेति वृत्तिः । ननु सूचिसूत्रिमूत्रीणां त्रयाणां यशब्दं प्रति किमर्थमभिधानाश्रयणम् “कारितस्यानाम् इड् विकरणे" (३।६।४४) इत्यत्र विषयसप्तम्या प्रागिनो लोपे एकस्वरा एवैते धातवः ? सत्यम्, एवं सति चोरयतीत्यादीनामपि प्रागिनो लोपे यशब्दः स्यादिति तन्निवृत्त्यर्थमेवैषां धातूनामुपादानम् । एतत्तु भाष्यकारमतमवलम्ब्योक्तम्, पदकारस्तु एषां धातूनां विषयसप्तमीमाश्रित्य प्रयोगाः सिध्यन्ति । किमेषामुपादानेनेत्याचष्टे, तन्मते तुल्यन्यायाच्चोरयतेरपि चोचूर्यते इति वृत्तावुक्तम् । 'अशू व्याप्तौ' (४।२२) इत्यस्यैव धातोर्यशब्दः पाणिनीयधातुवृत्तावुक्तम्, इह तु न्यासानुसाराद् ‘अश् भोजने' (८।४३) इत्युक्तम् ।
ननु प्रोर्णोनूयते इत्यत्र “न नबदराः" (३।३।३) इत्यादिसूत्रे 'अये' इति प्रतिषेधाद् रेफसहितस्य नुशब्दस्य न कथं द्विवचनम् । यथा अरार्यते इति ? सत्यम्, तत्र अये - इत्युपश्लेषलक्षणा सप्तमी । न चायं रेफो यकारोपश्लिष्ट इति तत्रैव व्याख्यातव्यम् । ननु सोसूच्यते इत्यत्र न कथं षत्वं "धात्वादेः षः सः" (३।८।२४) इत्यनेन विकारस्थत्वात् ? सत्यम् । स्वरादन्त्यपराः सादयः षोपदेशा इत्येकस्वराणामेव धातूनामिष्टत्वादिति न दोषः । शुभिरुचिभ्याम् इति वृत्तिः । “न शुभिरुचिभ्याम्" (इति पाणिनिः । तत्रैव गृणातेश्चेति भाषावृत्तिः। 'गै शदे' (१।२५६) इत्यस्यापि न स्यादित्यर्थ: । 'शोशुभ्यमाना वसुधा तदाऽभवत्' इति प्रयोगो मतान्तरेणेति वररुचिः । वस्तुतस्तु शुन्भधातोरयं प्रयोगः । न चैवं सति विशेषाभावात् शुभेनिषेधो व्यर्थ इति वाच्यम्, चेक्रीयितलोपे शोशुभीतीति प्रयोगनिवारणप्रयोजनत्वादिति सारसमुच्चयः । "नित्यं कौटिल्ये गतौ" (अ० ३।१।२३) इति पाणिनिः । अस्मन्मते तु वाधिकारात् सिध्यतीत्याह – गत्यर्थादिति वृत्तिः ।