________________
१८२
कातन्त्रव्याकरणम् ईशनम् ईट्, सम्पदादित्वाद् भावे क्विप् । एवं गोमन्तमाचष्टे गवयति । अयमेषां गोमतां प्रकृष्टो गोमान्, गविष्ठः । स्रग्विणां स्रजिष्ठः, स्रुग्वतां सुचिष्ठः । गोमतोर्गवीयान्, उग्वतोः सुचीयान् । स्रग्विणोः स्रजीयान् । मन्त्वाद्यन्ताद् इष्ठेयन्सू न दृश्येते इमन् न दृश्यते । “प्रशस्यस्य श्रः" (अ० ५।३!६०) इति श्रापयति सत्यापयति । सत्यार्थवेदानामन्त आप् तु कारित एव एकस्वराणामदन्तानां चाबागमः । एषां प्रशस्यानामयं श्रेष्ठः । अयमनयोः श्रेयान् । “वृद्धस्य च ज्य" (अ० ५।३।६१, ६२) इति प्रशस्यस्य च वृद्धस्य च इन् भवति ज्यादेशश्च । तत्करोति तदाचष्टे इतीन् सिद्ध एव । चकारस्तु निमित्तार्थः । श्रापयति, ज्यापयति । ज्येष्ठः, श्रेष्ठः । श्रेयान्, ज्यायान् । बहलवचनाद आदिलोपश्च ईयन्सोः, क्वचिद् ह्रस्वस्य दीर्घता । अन्तिकबाढयोर्नेदसाधाविति । अन्तिकबाढाभ्यामिन्, अन्तिकमाचष्टे नेदयति । बाढमाचष्टे साधयति । इमेऽन्तिकाः, अयमेषां नेदिष्ठः, इमावन्तिकौ । अयमनयोर्नेदीयान् । इमे बाढमधीयते, अयमेषां साधिष्ठमधीते । इमौ बाढमधीयाते । अयमनयोः साधीयोऽधीते ।
युवाल्पयो: कन् वेति । युवानमाचष्टे, अल्पमाचष्टे-कनयति, यवयति, अल्पयति । अयमेषां यूनां कनिष्ठः, यविष्ठः । अयमनयोयूनोः कनीयान्, यवीयान् । अयमेषामल्पानां कनिष्ठः, अल्पिष्ठः । अयमनयोः अल्पयोः कनीयान् अल्पीयान् । स्थूलदूरयुवक्षिप्रक्षुद्राणामन्तस्थादेर्लोपो गुणश्चेति । अन्तस्थैवादिर्यस्येति विग्रहः । स्थूलमाचष्टे स्थवयति । दूरमाचष्टे दवयति । युवानमाचष्टे यवयति । क्षिप्रमाचष्टे क्षेपयति | क्षुद्रमाचष्टे क्षोदयति । एवं स्थविष्ठः, स्थवीयान् । दविष्ठः, दवीयान् । यविष्ठः, यवीयान् । क्षेपिष्ठः, क्षेपीयान् । क्षोदिष्ठः, क्षोदीयान् । क्षिप्रस्य क्षुद्रस्य च भाव ः क्षेपिमा, क्षोदिमा । आभ्यामिमन् न दृश्यते । बहोर्यादिर्भश्चेति, बहो: पर इन् यादिर्भवति बहोभूरादेशश्च । बहुमाचष्टे भूययति । अयमेषां भूयिष्ठः। ___अतिदेशे बहुलग्रहणादिष्ठेयन्सू यकारादी न भवतः, लुप्तादी च भवतः । वहोर्भावः भूमा, अयमनयो यान् इति । प्रियेत्यादि । प्रियादीनामिन् भवति, यथासंख्यं प्रादयः आदेशाश्च भवन्ति । प्रियम्, स्थिरम् आचष्टे प्रापयति, प्रेष्ठः, प्रेमा, प्रेयान्, स्थापयति, स्थेष्ठः, स्थेयान्, स्फापयति, स्फेष्ठः, स्फेयान् । एकस्वराणामदन्तानाचान्त आप तु कारित एव । ऊरुमाचष्टे वरयति, वरिष्ठः, वरीयान् । गुरुमाचष्टे गरयति गरिष्ठः, गरिमा, गरीयान् । बहुलम् बंहयति, बंहिष्ठः, बंहीयान् । तृप्रम् - त्रपयति, त्रपिष्ठः, पीयान् । दीर्घम् - द्राघयति, द्राघिष्ठः, द्राघिमा, द्राधीयान् । ह्रस्वम् - ह्रसयति, हसिष्ठः, ह्रसीयान् । वृद्धम् - वर्षयति, वर्षिष्ठः, वर्षीयान् । वृन्दारकम् - वृन्दयति, वृन्दिष्ठः, वृन्दीयान् । प्रियगुरुदीर्घह्रस्वाणामेव इमन् दृश्यते ।। ४६२ |