________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१८३
[वि० प० ]
इनि० । अनेकाक्षरस्य लिङ्गस्यान्त्यस्वरो भवन्नर्थात् स्वजात्यपेक्षया भवतीत्याहस्वराणामित्यादि । हस्तिना अतिक्रामति, वीणया उपगायतीतीन् । ननु कथम् उपवीणयतीत्याकारलोपोऽन्त्यस्वरमात्रत्वादिति न देश्यम् । “आद्यन्तवदेकस्मिन् ” (अ० १।१।२३) इत्युपचारादन्त्यस्वरादित्वमस्तीति । तद्वदित्यादि । एतदपि चुरादौ गणसूत्रम्; तस्मिन्निव तद्वत् । 'इष्ठ इमन्-ईयन्सु' इत्येतेषु प्रत्ययेषु इनीव कार्यमित्यर्थः। तेनान्त्यस्वरादिलोपः सिद्धो भवति । अयमेषां प्रकृष्टः पटुः पटिष्ठः । पटोर्भावः पटिमा । अयमनयोः प्रकृष्टः पटुः पटीयानिति गुणादिष्ठेयन्सू वा । पृथ्वादिभ्य इमन् भावे तमादिनिपातनात् । मन्त्वित्यादि । ईशनमीट् । सम्पदादित्वाद् भावे क्विप्, ततस्तदस्यास्तीति मन्तुः । " हशषष्ठान्त० " ( २ | ३ | ४६ ) इत्यादिना षकारस्य इत्वे पदान्ते धुटां प्रथमः, पञ्चमे पञ्चमांस्तृतीयान्नवेति प्रत्ययपञ्चमे नित्यं णकारस्तत इनि मन्तुलोपे, या यस्य लिङ्गस्य भूतपूर्वा प्रकृतिः सा तस्यैवेति पुनः शकारावस्थानम् ||४६२ |
[क० च० ]
।
इनि० । अत्र बहुप्रकारोऽपि वृत्तिपाठस्तत्रायमेव प्रकारः शुद्धः । तथाहि स्वराणां मध्ये योऽन्त्यस्वरः स एवादिर्यस्यावयवस्येति विग्रहः । अक्षरशब्दस्य स्वरव्यञ्जनसमुदायवाचित्वाद् वाचयतीत्यादावपि अन्त्यस्वरादिलोपः स्यादित्याह - न क्षरतीत्यादि वृत्तिः । तथा च " व्यञ्जनमस्वरं परम् ०" (१।१ । २१ ) इत्यत्र व्यञ्जनत्वेऽक्षरशब्दो गौण एव । श्वेताश्वेत्यादि । ननु अश्वशब्दस्याकारस्य दीर्घाल्लोपे कृते अश्वशब्द एव नास्ति । कुतस्तल्लोपप्रसङ्गः । नैवम्, 'परनिमित्तादेशः पूर्वस्मिन् स एव ' (का० परि० ४४ ) इति न्यायादश्वशब्दोऽस्त्येव । ततश्च निमित्ताभावात् श्वेतशब्दोऽकारान्तोऽवशिष्यते इति । अथान्त्यस्वरादिलोपस्य बाधकमिदं वक्तव्यमुच्यते । तत् कथं श्वेतयतीति सिध्यति । यावता अश्वशब्दलोपे इनि परेऽकारस्य त्वमेव प्राप्नोतीति । अथैवं कृते किं दूषणम्, अनि “ए अय्” (१।२।१२) इति कृते श्वेतयतीत्यस्य सिद्धत्वात् । नैवम्, तदा 'श्वेत्यते, श्वेतयिता' इत्यादिकं न सिध्यति । सन्ध्यक्षरान्तानामित्यस्य विषयत्वात् चेदुच्यते - अन्त्यस्वरादिलोपस्य न बाधकमिदम्, किन्तु लोपश्चेति चकारेण समुच्चय आख्यायते ततश्चाश्वादिलोपेऽन्त्यस्वरादिलोपश्च क्रियते । तस्मात् ‘श्वेतयिता, श्वेतयाञ्चकार' इत्यादिकं न दुष्यति । ननु ' प्रत्ययलुकां चानाम् ” (४ | १|४) इति निषेधात् पुनरन्त्यस्वरादिलोपो न प्राप्नोति । नैवम्, धातोरवयवस्य लोपे सति तस्य विषयत्वाद् भिन्नकर्तृकत्वाच्च ।