________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
प्रेषणाध्येषणे कुर्वंस्तत् समर्थानि वाऽऽचरन् । कर्तेव विहितः शास्त्रे हेतुसंज्ञां प्रपद्यते ॥
१७५
( वा० प० ३ | ७|१२५) इति । तत्समर्थानीति । तस्मिन् वासादौ समर्थानि योग्यान्यनुकूलानि तृप्तिविशेषादीनि आचरन् सम्पादयन् भिक्षादिकोऽप्यर्थो हेतुरिति भावः । अध्यापयतीति । अधिपूर्व इङ् अध्ययने "स्मिजिक्रीङाम् इनि" ( ३ | ४ | २४ ) इत्यात्वम् । “अर्तिही०" (३।६।२२) इत्यादिना पकारागमः । आख्यानमात्रात् कृदन्तात् तदाचष्टे इतीन्, कृल्लुक्, प्रकृतेः प्रत्यापत्तिः, प्रकृतिवच्च कारकम् इति वक्तव्यम् । अस्यार्थः - यत् किञ्चिद् आख्यायते तदाख्यानमात्रम् - कंसवधादि । सीताहरणादि राजागमनादिकं वा । तस्मात् कृदन्तात् तदाचष्टे इतीन्, कृल्लुक्, प्रकृतेः प्रत्यापत्तिः प्रकृतेः पुनरावृत्तिः । कारकं च प्रकृतिवद् भवति । अनिनन्तायाः कृत्प्रकृतेर्यादृशं कारकमभूत्, इनन्ताया अपि तादृशम् इत्यर्थः । तद् यथा हननं वध इति हन्तेर्वधिश्चेत्यलि वध्यादेशः । कंसस्य वधः कंसवधः इति कर्मणि षष्ठ्याः समासे च कृते कंसंवधमाचष्टे इतीन् । अल्प्रत्ययस्य लुक्, हन्तेश्च स्वरूपेणावस्थानम्, कंसस्य च कर्मत्वम् । तदेतन्न वक्तव्यमित्याह - तथेत्यादि । तथा हेत्वर्थविवक्षायामेव हन्तेरिन्नित्यर्थः ।
—
एवमभिनयेनासौ कथकः कथां कथयति, येन कालभेदेऽपि परेषां प्रतीतिर्भवति - कंसं हन्तुं नारायणः कथकः प्रयुङ्क्ते इति । तथाहि वक्तारो वदन्ति - गच्छ त्वं हन्यते कंसः । अपरो वदति किं गतेन ? हतः कंस इति । एतदेवाह - तथा चेति । घातयतीति । "हस्य हन्तेर्धिरिनिचोः " ( ३ | ६ | २८) इति घत्वम् । " अस्योपधायाः " ( ३ | ६ |५) इत्यादिना दीर्घत्वम्, “हन्तेस्तः " ( ३।६।२७) इति नकारस्य तत्त्वम् । हारयतीति । हरतेरिन्, नामिनो वृद्धिः । एवं राजानमागमयतीति आङ्पूर्वाद् गमेरिन् । कंसवधमाचष्टे, सीताहरणमाचष्टे, राजागमनमाचष्टे इत्यादिवाक्ये त्विन्प्रत्ययो नाभिधीयते । “आलोपश्च कालात्यन्तसंयोगे मर्यादायाम्" इत्यपि न वक्तव्यम् । अस्यार्थः मर्यादायां य आङ् तस्य लोपश्चकारात् पूर्ववद् इन्प्रत्ययादि कार्यं च । कालात्यन्तसंयोगे कृत्स्नस्य कालस्य व्याप्तौ गम्यमानायामिति । आरात्रिविवासमाचष्टे इतीन् । अत्र रात्रिशब्दो रात्रिसंबन्धिनीषु क्रियासु वर्तते । वरिप विपूर्वोऽतिक्रमे वर्तते । विवसनं विवास इति भावे घञ् । रात्रेर्विवासो रात्रिविवासः । आरात्रिविवासाद् आरात्रिविवासमिति । पश्चाद् आङो मर्यादायाम् अव्ययीभावः । तदयमर्थः - अस्तमयात् प्रभृतेर्याः प्रवृत्ताः क्रियाः यावदतिक्रान्ता रात्रिस्ताः साकल्येन