________________
१७६
कातन्त्रव्याकरणम्
कथयति । रात्रि विवासयतीति । अत्र विवसिरतिक्रमे । रात्रिः कर्वी ततः कृतो लुक्यपि "प्रकृतिवच्च कारकम्" इत्यतिदेशात् कर्तृत्वमेव प्राप्तम्, कर्मत्वं तु ग्राम गमयतीतिवद् गतिबुद्धीत्यादिना विपूर्वस्य वसेर्गत्यर्थत्वादिति । तदपि न वक्तव्यमित्याह - तथेति । स तथा कार्येन रात्रिसहचरितां क्रियाम् आप्रभातमाचक्षाणः कथको रात्रि विवस्तुं प्रयुङ्क्ते इति हेत्वर्थविवक्षायामेव सिद्धमित्यर्थः ।
उज्जयिन्या इत्यादि । अत्रापि तथा त्वरितम् उज्जयिन्याः सकाशात् प्रस्थितो माहिष्मतीं गच्छति, येनास्य तत्र सूर्योदयो भवति, तेनैव परेषां प्रतीतिः । सूर्यमुद्गन्तुमयं प्रयुङ्क्ते । समागतोऽहमिदानीम् उद्गच्छ सूर्येति हेत्वर्थे एवेन्प्रत्ययः । तस्माच्चित्रीकरणे प्राप्त्यर्थ इति न वक्तव्यम् । चित्रीकरणम् आश्चर्यम्, तच्चेत् प्राप्त्यर्थविषयं भवति, प्राप्तिकृतं भवतीत्यर्थः । उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयति । सूर्यमुद्गमयतीति । उज्जयिन्या हि माहिष्मती दूरदेश इति तावता देशस्याल्पेन कालेन प्राप्तत्वाद् आश्चर्यमिति । एवं नक्षत्रयोगे जानात्यर्थ इति वक्तव्यम् । पुष्येण चन्द्रस्य योगं जानाति, पुष्येण चन्द्रस्य योगं योजयतीत्यर्थः । यत एवमसौ दैवज्ञः पुष्येण चन्द्रस्य योगं जानाति (गणयति), तेनैव लोकस्य प्रतीतिः । पुष्येण चन्द्रोऽनेन योजित इति । तथा च लौकिकव्यवहारः कदा पुष्येण चन्द्रो योजयितव्यो भवतेत्याह - तथेति । पुष्येण चन्द्रो युनक्ति । तं प्रयुङ्क्ते योजयतीत्यर्थः ।।४६०।
[क० च०]
धातोः । हेतुग्रहणानर्थक्यप्रसङ्गादिति । ननु हेतुग्रहणस्य कथम् आनर्थक्यप्रसङ्ग इत्याह – क्रियाभावो हीत्यादि । किमिह व्यवच्छिद्यते इति । ननु कथमेवमुच्यते, यावता हेतुशब्दसामर्थ्याद् हेतुशब्दप्रयोगो यदा क्रियते तदैव प्रत्ययो भविष्यतीति । यथा अन्नस्य हेतोर्वसतीत्वाशयाह - चुरादेश्चेति ।
अयमर्थः- चुरादितो हि प्रत्ययः स्वार्थे विधीयते तत्र यद्यनेनैव स्वार्थे विधीयते किन्तेनेति ? ननु चुरादेश्चेति वचनं यत्र हेतुशब्दप्रयोगो नास्ति, तदर्थं भविष्यति । यथा चोरयति देवदत्तः ? सत्यम् । शास्त्रसंकेतितं परित्यज्य लौकिकहेतुग्रहणे प्रमाणं वाच्यं स्यात् । तथा च पाणिनीयाः पठन्ति – 'कृत्रिमाकृत्रिमयोः कृत्रिम एव कार्यसम्प्रत्ययः' (व्या० परि० ६) इति । एतत्तु वचनाच्चेति चकारेण सूच्यते । धात्वर्थं वर्तयन्त्यन्ये इति । अन्ये इत्यन्ये, नास्माकं मतमिति सूच्यते । यावता यदि धात्वर्थो वर्तते तदा हेतुभूतो यो धात्वर्थस्तस्मिन् प्रत्यय इत्यर्थे सति भिक्षा वासयतीत्यत्रैव स्यात्, न देवदत्तः पाठयतोत्यत्र प्राप्नोति । अथ विशेषणविशेष्यभावस्य प्रयोक्तु