________________
१७४
कातन्त्रव्याकरणम्
प्रत्ययनं यत्कालभेदेनाद्यापि लोके व्यवहार इति तत्र यः शब्दप्रतिपाद्योऽर्थस्तत्रापि तावद्धेतुत्वमस्ति किं पुनर्यत्र ते सौचनिका : प्रत्यक्षं कंसं घातयन्ति, बलिं च बन्धयन्ति, तत्र हेतुत्वं न स्यात् । चित्रेषु च यथोदीर्णा निपाताः प्रहाराश्च दृश्यन्ते कंसाकर्षश्चेति । स तथा आचक्षाणः कथकोऽयम् । एवं रात्रिं विवस्तुं प्रयुङ्क्ते इति प्रतीयते । तथा त्वरितम् उज्जयिन्याः सकाशात् प्रस्थितो माहिष्मतीं गच्छति, येनास्य तत्र सूर्योदयो भवति । तेनैव परेषां प्रतीतिः । सूर्यमुद्गन्तुं प्रयुङ्क्ते समागतोऽयमधुनोद्गच्छति च सूर्यः । एवमसौ गणकस्तत्परः पुष्येण चन्द्रस्य योगमाख्यातुं पिण्डयति निर्णयति, येनैवं परेषां प्रतीतिः - पुष्येण चन्द्रो योजितोऽनेन वर्तते ( उपकरणादिकं सज्जीकुरुते ) । पृच्छतु मां भवान्, अनुयुङ्क्तां मां भवान् इति पञ्चम्यैवोक्तार्थत्वात् प्रेषणस्येन् न भवति । छात्रं प्रयुङ्क्ते इति युजिनैवोक्तत्वादिति || ४६० |
[वि० प० ]
धातोः । लोके फलसाधनयोग्यः पदार्थो हेतुरुच्यते । शास्त्रे च " कारयति यः स हेतुश्च" (२|४|१५ ) इति । अत्र यदि लौकिकहेतोर्ग्रहणं स्यात् तदा अध्ययनेन वसतीत्यत्रापि स्यात् । अस्त्वेवं विशेषाभावाच्चेत् तदयुक्तम्, हेतुग्रहणानर्थक्यप्रसङ्गात् । क्रियाभावो हि धातुः, क्रिया च साध्यरूपा, यच्च साध्यम्, तद् हेतुमन्तरेण न संभवतीति । सर्वैव क्रिया हेतुमती । ततो हेतुग्रहणेन किमिह व्यवच्छिद्यते, चुरादेश्चेति वचनाच्च । चुरादयो हि धातवस्तदर्थोऽपि क्रियालक्षण एव । क्रिया च साध्यरूपा, साध्यरूपत्वान्न हेतुव्यभिचारिणीत्यनेनैव सिद्धम्, तस्मात् कारयति यः स हेतुश्चेति । अस्य च द्रव्यत्वात् तत्र न धातुर्वर्तते इति । अर्थात् तद्व्यापार एव प्रतीयते इत्याह- हेतुशब्देनेत्यादि । हेतुव्यापारश्च प्रेषणाध्येषणादि
लक्षण: ।
I
धात्वर्थं वर्तयन्त्यन्ये इति । हेतौ यो धात्वर्थस्तस्मिन्नित्यर्थः । ननु भिक्षादीनामचेतनत्वात् प्रयोजकत्वं नास्ति तत् कथमत्र इन् प्रत्यय इत्याह- तथेत्यादि । नहि स एव वस्तुं प्रयुङ्क्ते य आह - उष्यतामिति । किन्तु तूष्णीं व्यवतिष्ठमानोऽपि यस्तथा प्रतिपादयति सोऽपि वस्तुं प्रयुङ्क्त एवेति न खल्वसौ मौनी वसेति वचनमनुच्चारयन् वसनक्रियानुकूलं च पीठादिकं प्रयच्छन् प्रयोजको न भवतीति, तस्माच्चेतनत्वमकिञ्चित्करमेव । भिक्षा च प्रचुरतरव्यञ्जनवती लभ्यमाना वासानुकूलं तृप्तिविशेषमादधाना कथन्न प्रयोजिकेति । तथा कारीषोऽपि निर्वातवह्निप्रज्वलितोऽध्ययनविरोधिशीतादिकम्, अपनयन् अध्ययनानुकूलं सामर्थ्यमुपजनयतीति युक्तम् । तस्यापि प्रयोजकत्वम् | तथा चोक्तम्,