________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१७३ हिंसार्थ इति "न गतिहिंसार्थेभ्यः" इति प्रतिषेधः प्राप्नोति ? सत्यम् । यथा प्रत्ययार्थविशेषणे प्रधानाप्रधानन्यायस्तद्वदिहापि, कथमन्यथा कर्तृभेदो यदि क्रियाभेदो नास्तीति । यस्य यत्नोऽस्ति स प्रधानकर्ता अन्यश्चाप्रधानमिति । औपश्लेषिकमधिकरणं वा, हेतुनोपश्लिष्टाद् धातोरिति ।
धात्वर्थं वर्तयन्त्यन्ये इति । "इन् कारितं धात्वर्थे" (३।२।९) इत्यतो धात्वर्थ इति वर्तते, हेतौ यो धात्वर्थस्तस्मिन् अभिधेये प्रेषणाध्येषणलक्षणे इन् भवति । प्रत्ययार्थविशेषणेऽपि 'ग्रामं गमयति, ग्रामाय गमयति' इति व्यतिरिक्तो गत्यर्थ इति गत्यर्थकर्मणि द्वितीयाचतुर्थ्यां प्राप्नुतः । अभिषावयतीति व्यतिरिक्तः सुनोत्यर्थः इति सुनोतेरुपसर्गात् षत्वं न प्राप्नोतीति । एधो दकस्योपस्कारयतीति व्यतिरिक्तः करोत्यर्थ इति “करोतेः प्रतियले' (२।४।३९) इति षष्ठी न प्राप्नोति ? सत्यम् । नासावेवं प्रेष्यते गच्छति । नासावेवं प्रेष्यते सुन्विति । किं तर्हि उपसर्गविशिष्टां क्रियां प्रति असौ प्रेष्यते अभिषुष्विति । नासावेवं प्रेष्यते कुरुष्वेति । किं तर्हि एधो दकस्योपस्कुरुष्व इति । यदि "धातेश्च हेतौ" (३।२।१०) इत्यर्थे इन् विधीयते निर्विशेषणं तदा विभक्तिर्न स्यात, इनैव हेतुकतुरभिधानात् । अथ संख्यापुरुषकालाभिधानायोत्पद्यते तथापि कर्मणि भावे च दुष्यति – कार्यते कट:, कारणा, पाचनेति । पञ्चभिर्हलै : कर्षतीति नात्र कृषिविलेखने, किन्तर्हि प्रतिविधाने उप्तबीजस्य बलीवर्दैः प्रतिविधानं करोतीत्यर्थः । 'राजा यजते, याजका : याजयन्ति' इति कथं विपर्ययः । नैष दोषः, नावश्यं यजिर्हविःप्रक्षेपण एव वर्तते, किन्तर्हि हेतुत्यागेऽपि । तथा च लोके अहो यजते इत्युच्यते, याजकाश्च प्रयोजयन्तीति । आख्यानमात्रात् कृदन्तात् तदाचष्टे इतीन्, कृल्लुक् प्रकृतिप्रत्ययापत्तिः प्रकृतिवच्च कारकमिति वक्तव्यम् । कंसवधमाचष्टे, कंसं घातयति, राजागमनमाचष्टे - राजानमागमयतीति । आख्यानमाचष्टे इति वाक्यमेव । दृश्यार्थायां च प्रवृत्तौ । मृगरमणमाचष्टे - मृगान् रमयतीति । आलोपश्च कालात्यन्तसंयोगे मर्यादायाम् । आरात्रिविवासमाचष्टे - रात्रिं विवासयति । चित्रीकरणे च प्राप्त्यर्थे । उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयति - सूर्यमुद्गमयतीति ।
नक्षत्रयोगे जानात्यर्थे -पुष्पेण चन्द्रयोगं जानाति, पुष्येण चन्द्रं योजयति । एतानि न वक्तव्यानीत्याह - तथेत्यादि । निमित्तभावेन स्थिता भिक्षा कारीषश्च हेतुरित्युक्तमेव कारके । तथाहि नावश्यं स एव वस्तुं प्रयुङ्क्ते य आह उष्यतामिति, तूष्णीमासीनोऽपि यस्तथा प्रत्याययति सोऽपि वस्तुं प्रयुक्त एव । एवमभिनयेन कथकः कथयति येन कंसवधाय बलिबन्धनाय च नारायणं प्रयुक्त इति । तथा च परेषां