SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १७० कातन्त्रव्याकरणम् वृत्तिः । “पुच्छभाण्डचीवराण्णिङ्' (अ०३।१।२०) इति परः । एवं करिभिरवबध्नाति अवकरयति । दात्रेण लुनाति दात्रयति । असिना छिनत्ति असयति । परशुना छिनत्ति परशयति इति धातुवृत्तिः । पञ्जी - यत् कर्तृग्रहणं तदिन्द्रियं विशिष्टं करणं तत्र मा भूदिति । तर्हि कथं मनसा अतिक्रामतीत्यर्थे अभिमनयति इति प्रयोगः ? सत्यम् । कर्तृकरणार्थ इत्यनेनैव 'उपवीणयति' इत्यादिकं सर्वं सिध्यति, यत् पुनस्तेनातिक्रामतीति अपरसूत्रम् । तदतिमनयतीति साधनार्थमिति हेमकरः । तन्न, इन्द्रियस्यापि मनसः कर्तृकरणाविरोधात् । यत्तु तेनातिक्रामतीत्युक्तम्, तद् हेत्वर्थविवक्षायामपि यथा स्यादिति | सहार्थेऽपि न भवति, अनभिधानात् ।।४५९ । [समीक्षा] 'सत्यमाचष्टे सत्यापयति, प्रियमाचष्टे प्रापयति, कुर्वन्तं प्रयुङ्क्ते कारयति, पचन्तं प्रयुङ्क्ते पाचयति, चोरयति, चिन्तयति' आदि शब्दों के साधनार्थ कातन्त्रकार ने इन् प्रत्यय तथा पाणिनि ने णिच् प्रत्यय किया है। एतदर्थ दोनों ही व्याकरणों में ३-३ सूत्र पढ़े गए हैं । अर्थनिर्देश की दृष्टि से कातन्त्र का वर्गीकरण अधिक समीचीन है | पाणिनि ने दो सूत्रों में २२ शब्द पढ़े हैं | उनसे विविध अर्थों में णिच् प्रत्यय करके नामधातुएँ बनाई गई हैं- "मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्, सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्" (अ० ३।१।२१, २५) । कातन्त्रकार ने इस इन् प्रत्यय की कारित संज्ञा भी की है, परन्तु पाणिनि ने णिच प्रत्यय की कोई भी संज्ञा नहीं की है। व्याख्याकारों ने भिन्न-भिन्न शब्दों से विविध अर्थों का निर्देश किया है | [विशेष वचन] १. पयो व्रतयति । पयो भुङ्क्ते इति गम्यते । वृषलान्नं व्रतयति । न भुङ्क्ते इत्यर्थः (दु० वृ०)। २. दिङ्मात्रमिदम्, गणकारवचनादप्यूह्यम् (दु० वृ०)।। ३. यद्यपि धातवो भ्वादयस्तेषामर्थाः सत्तादयस्तथापि यस्मान्नाम्नो यस्मिन् धात्वर्थे इन् दृश्यते तस्मात् तस्मिन्नेव भवति, अभिधानात्, वाधिकारस्य बाहुलार्थत्वाद् वा (दु० टी०)। ४. कर्तुर्यदुपकारकं तस्मिन् वर्तमानान्नाम्न इत्यर्थः । इन्द्रियमपि विशिष्टं करणमिति कर्तृग्रहणम्, तेनातिक्रामतीति हेतावपि प्रतिपत्तव्यम् (दु० टी०)। ५. कारितमिति पूर्वाचार्यसंज्ञा सुखावबोधार्था (दु० टी०)।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy