________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१६९ हलिमित्यादि । अत एव बहुलमेतन्निदर्शनमिति वक्ष्यति । इनि लिङ्गस्येत्यादिनाऽन्त्यस्वरादिलोपः । एवमिति । कृतादिभ्यो गृह्णातीत्यर्थ एवेति भावः । वितूस्तयतीति । केशान् विजटीकरोतीत्यर्थः । आबागमश्चेति । सत्यार्थवेदानामन्त आप तु कारित एवेति चुरादिवचनादाप् । यथा प्रियमाचष्टे इति विग्रहे कारिते सति “प्रियस्थिरस्फिरोरुगुरुबहुल०" (अ० ८।४।१५७) इत्यादिना प्रियशब्दस्य प्रादेशे सति एकस्वराणामदन्तानां चेत्याप् । कर्तृकरणार्थ इति । कर्तुः करणं कर्तृकरणम्, तदेवार्थस्तस्मिन्निति । करणं हि करिव भवति । यदिह कर्तग्रहणं तदिन्द्रियमपि विशिष्टं करणं तत्र मा भूद् इत्येतदर्थम् । अन्यथा चक्षुषा पश्यतीति एतदर्थे चक्षयतीति प्रयोगः स्यादिति भावः । अभिषेणयतीति । स्थासेनिसेधतीत्यादिना षत्वम् । तथा "इनङ् अङ्गनिरसनेऽपि" इति चुरादौ गणसूत्रमित्यर्थः । धात्वर्थे सिद्धे इन् प्रत्ययस्तस्य ङानुबन्धत्वमनेन विधीयते इत्यर्थः । तेनास्य कारितव्यपदेशः सिद्धो भवति । "अङ्गनिरसनेऽपि" इत्यपिशब्दो बहुलार्थ इत्याह - एवमिति । भाण्डानि समाचिनोतीति राशीकरोतीत्यर्थः । चीवरं संमार्जयतीति । अन्ये तु चीवरादर्जने परिधाने चेति मतान्तरं पश्यन्तश्चीवरं संमार्जयतीति पाठं न मन्यन्ते । दिङ्मात्रमित्यादि । चुरादौ "श्वेताश्वाश्वतर०" इत्यादिगणसूत्रादप्यूहनीयमित्यर्थः ।।४५९।
[क० च०]
इन् । अत्र परः “मुण्डमिश्रश्लक्ष्णलवणसूत्रव्रतवस्त्रहलिकलिकृतहस्तेभ्यो णिच्" (अ० ३।१।२१) इति सूत्रमेकम्, तथा “सत्यापशब्दरूपवीणातूलश्लोकसेनालोमत्वचवर्णचर्मचूर्णचुरादिभ्यश्च" (अ० ३।१।२५) इत्यपरं सूत्रं ब्रूते । न ह्यत्रार्थनियमोऽस्ति तेन करणे इत्यनुवृत्त्या क्रियासामान्यमेव प्रतीयते, किन्तु केवलं शब्दशक्तिस्वभावाद् अर्थविशेषो बोध्यः । अस्मन्मतेऽपि तदेवेत्याह - हलिं कलिमिति वृत्तिः। महद्धलं हलिरुच्यते । हलिकली कामधेनू अर्थबाहुल्यादिति वृद्धाः। तूस्तेति वृत्तिः । तूस्तं हलि: । वितूस्तयति पन्थानं राजेति भाषावृत्तिः। कातन्त्रप्रदीपे तु जटावचनस्तूस्तशब्दः प्रदर्शितः । तदनुसारेण पञीकृता व्याख्यातम् - केशान् विजटीकरोतीति । पयो व्रतयतीति वृत्तिः। व्रतशब्दोऽयं भोजने तन्निवृत्तौ च वर्तते । तथा च व्रताद् भोजने तन्निवृत्तौ चेति काशिका | कदाचिद् दर्शन इति वृत्तिः। गणसूत्रमिदम् । अत्र अनन्तराच्चित्रशब्दात् कदाचिद् दर्शनयोरर्थयोरित्यर्थः । यथा चित्रयति चित्रम् | कदाचिद् आलेख्यं करोतीत्यर्थः । तथा निरूपयति रूपं पश्यतीत्यर्थः । वृत्तौ रूपान्निदर्शने इति जयादित्यमतेन सह स्वमतमेकीकृत्यैकमेवोदाहरणं प्रदत्तम् । बहुलमिति वृत्तिः । निदर्शनमुदाहरणं सूत्रैः संग्रहीतुमशक्यमित्यर्थः । एवं पुच्छमुत्क्षिपति इति