________________
१६८
कातन्त्रव्याकरणम्
मुण्डयति । एवं मिश्रयति, श्लक्ष्णयति, लवणयति, सूत्रयति । पयो व्रतयति । पयो भुङ्क्ते इति गम्यते । वृषलान्नं व्रतयति । न भुङ्क्ते इत्यर्थः । सत्यमाचष्टे सत्यापयति । एवम् अर्थापयति, वेदापयति । प्रियमाचष्टे प्रापयति । आबागमश्च । तेनातिक्रामति । हस्तिना अतिक्रामति अतिहस्तयति । कर्तृकरणार्थे । वीणया उपगायति उपवीणयति । तूलैरवकुष्णाति अवतूलयति । श्लोकैरुपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति । कदाचिद् दर्शने । रूपं पश्यति निरूपयति ।
बहुलमेतन्निदर्शनम् | तथा इनङ् अङ्गनिरसनेऽपि । हस्तौ निरस्यति हस्तयते । पादौ निरस्यति पादयते । एवम् पुच्छमुत्क्षिपति उत्पुच्छयते गौः । पुच्छं परिक्षिपति परिपुच्छयते । भाण्डानि समाचिनोति संभाण्डयते वणिक् । चीवरं संमार्जयति परिदधाति वा संचीवरयते भिक्षुः । दिङ्मात्रम् इदम् गणकारवचनादप्यूह्यम् ।। ४५९ । [दु० टी० ]
इन् कारि० । यद्यपि धातवो भ्वादयस्तेषामर्थाः सत्तादयस्तथापि यस्मान्नाम्नो यस्मिन् धात्वर्थे इन् दृश्यते तस्मात् तस्मिन्नेव भवति, अभिधानाद् वाधिकारस्य बहुलार्थत्वाद् वा । एवमिति । कृतवर्णत्वचोऽपि गृह्णात्यर्थ एवेति भावः । एवं तूस्तानि विहन्ति वितस्तयति । तूस्तान्युद्धरति उत्तूस्तयति । केशान् विजटीकरोतीत्यर्थः । वस्त्रात् करणादपि । वस्त्रेण समाच्छादयति संवस्त्रयति । चूर्णैरवकिरति अवचूर्णयति । मुण्डं बलीवर्दं करोतीति उभयधर्मविधाने न भवति । श्लक्ष्णं करोतीति अनुवादे न भवति । व्रतं करोतीति व्रतयति । सत्यापयतीति सत्यार्थवेदानामन्त आप् तु कारित एवेति चुरादिगणसूत्रम् | आख्यानमाचष्टे इति वाक्यमेव । कर्तुर्यदुपकारकं तस्मिन् वर्तमानान्नाम्न इत्यर्थः । इन्द्रियमपि विशिष्टं करणम् इति कर्तृग्रहणं तेनातिक्रामतीति हेतावपि प्रतिपत्तव्यम् । तथा इनङ् अङ्गनिरसनेऽपि चुरादौ गणसूत्रमित्यर्थः । धात्वर्थे इन् सिद्धः स ङानुबन्धो भवतीत्यर्थः । तेन कारितसंज्ञाप्यस्य सिद्धेति कारितलोपो भवति । हस्त्यते देवदत्तेन पाद्यते देवदत्तेनेति भाव एव प्रतीयते । युक्तार्थे सति यथा पुत्रीय्यते छात्रेण, श्येनाय्यते काकेनेति । निरसनेऽपीत्यपिशब्दो बहुलार्थस्तेन पुच्छादुत्क्षेपणे भवति । भाण्डात् समाचयने । चीवरात् संमार्जनपरिधानयोः | कारितमिति पूर्वाचार्यसंज्ञा सुखावबोधार्था || ४५९ |
[वि० प० ]
इन् । इहाविशेषनिर्देशेऽनवस्मान्नान्नी यस्मिन् धात्वर्थे इन् दृश्यते, तस्मात् तस्मिन्नेव भवत्यभिधानात् । अधिकृतस्य वाशब्दस्य बहुलाचा वेति दर्शयन्नाह