________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
'आय्यन्ताच्च'
सश्चरत्यर्थे आयिप्रत्ययार्थं सूत्रं रोमन्थायते इत्यत्रोक्तमेव । त ( ३।२।४४) इत्यात्मनेपदे प्राप्ते परस्मैपदार्थं वक्तव्यमिति काशिका | कण्ड्वेत्यादि वृत्तिः । “कण्ड्वादिभ्यो यक्" (अ० ३।१।२७) इति पाणिनिः । करण इति वर्तते ।
""
१६३
""
""
पञ्जी - अन्वाचयशिष्टेति । व्याख्यानादन्वाचयशिष्टोऽयं चकारः इति रक्षितः । व्याप्तिन्यायादिति अन्ये । नामिव्यञ्जनान्तादिति महान्तः । अन्यथा यदि यत्रायिस्तत्रैव लोपस्तदा कथं नामिव्यञ्जनान्तादायेरादिलोपप्रसङ्गः इति भावः । वर्णान्तस्येत्यादि । ननु कर्तुरित्यनेन पञ्चम्यन्तेन सह सलोप इत्यस्यासम्बन्धाद् वर्णान्तस्येति परिभाषायाः अप्रवेशाद् यत्र कुत्रापि स्थितस्य सकारस्य लोपः स्यात् ? सत्यम् । कर्तुरिति विभक्तिविपरिणामे सति षष्ठ्यन्तविपरिणामस्य कर्तृभूतस्य नाम्न एव सलोपः इत्यर्थे सति सम्बन्धोपपत्तौ ' वर्णान्तस्य विधिः' (का० परि० ५ ) इति परिभाषाविषयोऽस्त्येवेति न दोषः । ननु 'सारसायते' इत्यादौ अकारस्य दीर्घत्वे सति परनिमित्तादेश इति न्यायात् सान्तत्वमस्त्येव, तस्मात् सलोप एव स्यात् ? 'स्वरादेशः परनिमित्तिकः पूर्वविधिं प्रति स्थानिवत्' (का० परि० ९) इति न्यायादकारोऽस्त्येव । न च "न पदान्त० (का० परि० १० ) इत्यादिना दीर्घविधिं प्रति न स्थानिवदिति वाच्यम्, नञोऽनित्यत्वात् । तथा च सति ' असिद्धं बहिरङ्गम्' (का० परि० ३३) इत्यादिनाऽसिद्धवद्भावोऽपि वक्तुं शक्यते इति ।
""
वस्तुतस्तु 'ओजसोऽप्सर ०" इत्यादिनात्र सलोपो नास्तीति व्याख्यास्यते । अतो विद्वस्यते इत्यत्र नास्ति सलोप इति ब्रूमः । ओजस इत्यादि । अतोऽन्यत्र सलोपो नास्तीति विकल्पनित्ययोर्नियतविषयत्वात् । एवं सति 'विदुष्यमाणः' इत्यादिप्रयोग उपपन्न इति । पचाद्यजिति । अन्यथा “नामिव्यञ्जनान्तादा” (३ | ६ |४२ ) इत्यादिना आये दिलोपे अनिष्टापत्तिः । यत्पुनरित्यादि । ननु परमते 'गल्भाञ्चक्रे देवदत्तेन' इति भावेऽपि भवति । भवदीययुक्त्या तु गल्भादिशब्दस्य सकर्मकत्वात् कथं भावे ? सत्यम् | 'मासान् पच्यते' इतिवत् सकर्मकादपि धातोर्भावे प्रत्ययो भवतीति । यदि पुनः 'भावाख्यातं ध्रौव्याद्' इति मतमाश्रीयते, तदानभिधानाद् न भवतीति वाच्यम् । गल्भाञ्चकार इति, एवं गल्भाञ्चक्रे इति कर्मण्यपि प्रत्ययो न भवति । वस्तुतस्तु गल्भाञ्चकार, गल्भाञ्चक्रे देवदत्तेनेति प्रयोगो भवत्येव । पाणिनिनापि अपूर्वगल्भस्यैव सूत्रे पाठात्, किन्तु अवगल्भाञ्चक्रे इत्यादि प्रयोगो न भवतीति ब्रूमः । पञ्जीटीकयोरपि तात्पर्यं व्याख्येयम् ।
कण्डूवादिभ्यः इति । कण्डूयञ् गात्रविघर्षणे वर्तते । मन्तूयङ् वैमनस्ये । वल्गूयञ् सौन्दर्यपूजनयोः । तथा च ' वल्गूयन्तीं विलोक्य त्वां स्त्री न वल्गुयतीह' ।