________________
१६२
कातन्त्रव्याकरणम् आत्मनेपदार्थम् । अत एव तद्वदत्रापि कल्प्यते । अप्सरस इत्यादि वृत्तिः । यद्यपि 'स्त्रियां बहुष्वप्सरसः' (१।१।५२) इति अमरस्तथापि एकाप्सरोविवक्षया एकवचनमिति कुलचन्द्रः।
वयं तु शब्दानुकरणादेकवचनमिति ब्रूमः । यथा चतुर इति । तथा व्यर्थ इति वृत्तिः । अत्र "भशादिभ्यो भुव्यर्थे च्वेर्लोपो हलश्च" (अ० ३।१।१२) इति परसूत्रम् । अस्यार्थः - भुवनं भूस्तस्मिन् भुवि तदर्थे भृशादिभ्य आयिर्भवति, अन्तस्य व्यञ्जनस्य च लोपः । अच्वेरिति च्विवर्जितेभ्यो भृशादिभ्य इत्यर्थः । भृशादिविशेषणत्वेऽप्येकवचनं "विभक्तीनाममपञ्चम्याः" (२।४।१) इतिवद् अच्वेरिति पर्युदासवृत्त्या च्व्यर्थसदृशस्य भृशादेरित्यर्थः । सादृश्यं चाभूततद्भावत्वादर्थकृतमेवेति न्यासः । “डालोहितादिभ्यः' इति वृत्तिः । परेणाप्यत्र "डाज्लोहितादिभ्य उभयम्' इत्युभयपदविधानार्थम् आयिविषये डाज ज्ञाप्यते । “कष्टाय क्रमणे" (अ० ३।१।१४) इति पाणिनिः । 'सुपः' इति पञ्चम्यन्ता प्रकृतिरनुवर्तते । अयमर्थः- कष्टार्थं यत्प्रातिपदिकम्, ततः क्रमणेऽर्थे आयिर्भवतीत्यर्थ: । क्रमणं चात्र प्रवर्तनम्, कष्टायेति सामान्येन निर्देशात् शत्रकक्षकृच्छ्रगहनेभ्योऽपि स्यात् । तथा चात्र श्लोकः- 'तादर्थ्य एवात्र भवेच्चतुर्थी कष्टाय यत क्रामति कर्मणे तु' इति भाषावृत्तिः। वृत्तौ तु "कष्टाय कर्मणे'' इति परमतानुवादनं क्रामतीति वाक्यम् । परदर्शनम् अत्रापि कष्टायेति संबन्धनीयम् । केचित्तु “कष्टाय कर्मणे" पठन्ति, स च सुगम एव । रोमन्थमिति वृत्तिः । “कर्मणो रोमन्थतपोभ्यां वर्तिचरोः" (अ ३।१।१५) इति पाणिनिः । उभयसामानाधिकरण्ये पूर्ववत् कर्मण इत्येकवचनम् । अस्मादेव निर्देशाद् वर्तेरिनन्तादपि युविषये क्तिः | चरणं चर, सम्पदादित्वात् क्विप् । व्यवस्थितवास्मरणाद् वर्तनमिह हनुचलनमेव गृह्यते । बाष्पमुद्वमतीति वृत्तिः । अथात्र "बाष्पोष्मभ्यामुद्वमने" (अ० ३।१।१६) इति पाणिनिः । उद्वमनशब्दोऽत्र क्रियावचनः, कर्मण इत्यनुवृत्तिः । न हि क्रियां विना कर्मत्वं भवतीति न्यासः । चकाराधिकारात् फेनाच्चेति न्यासः। सुखादीनीति वृत्तिः । “सुखादिभ्यः कर्तृवंदनायाम्" (अ० ३।१।१८) इति पाणिनिः । कर्तृपदादात्मसुखवेदनायामेवेति न्यासः । शब्दादीनि करोतीति वृत्तिः। तत्र "शब्दवैरकलहाभ्रकण्यमेघेभ्यः करणे" (अ० ३।१।१७) इति पाणिनिः । करणशब्दोऽत्र क्रियावचन:, कर्मण : इत्यनुवृत्तिः, न हि क्रियां विना कर्मत्वं युज्यते इति न्यासः । नमस्तप इत्यादि वृत्तिः । “नमो वरिवश्चित्रङः क्य" (अ० ३।१।१९) इति पाणिनिः। करण इत्याद्यनुवर्तते शब्दशक्तिस्वभावात् कर्मविशेषो लभ्यते । तेन पूजापरिचर्याश्चर्येष्वेवाभिधानम्, यथासूत्रं विना बहुव्रीहेर्मत्वर्थ एव न्यासः । तप