________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१६१
भरण्य, तुरण्य, भुरण्य, नीचस्य, पम्पश्य, भिषज्य, चुरण्य, गद्गद्य, इल्य, लेख्य, लेखाय, लिट्य, लाट्य, रेखाय, अगद्य, द्रव्यस्य, पयस्य, सम्भूयस्य, अम्बर्य्य, सम्बर्य्य' । एतदित्यादि । एतेन रोमन्थादिभ्यो नामगणेभ्योऽसावसौ प्रत्ययो वाशब्दात् तत्र तत्रार्थे भवतीति मतं दर्शयति ।। ४५८ ।
[ क० च० ]
कर्तुः । ननु कर्तृभूतान्नाम्न आयिर्विधीयते । नहि आयेः प्रकृतेः कर्तृत्वं प्रतीयते किन्त्वन्यस्य । तथाहि ' श्येनायते काकः' इत्यत्र काकस्यैव कर्तृत्वं प्रतीयते न श्येन - स्येति ? सत्यम् । उपमानभूतात् कर्तुरायिरित्युक्तेऽयमेवार्थः । तथाहि यत्कर्तृक आचारे अन्य उपमीयते तस्मादायिर्भवतीति । एवं च सति श्येनो यथाचरति तथा काक आचरतीत्यर्थो बोद्धव्यः । वस्तुतस्तु कर्तुरिति सम्बन्धे षष्ठी न तु पञ्चमी । ततश्चाचारेऽभिधेये यः कर्ता तस्य यदुपमानं तस्मादायिर्भवतीति ब्रूमः । न चोपमानादित्यनेन सामानाधिकरण्येनान्वयसंभवात् कर्तुरिति पञ्चम्येवेति वाच्यम्, विशेषणविशेष्यभावस्य प्रयोक्त्रायत्तत्वात् |
ननु आयेराकारकरणं किमर्थम्, यावता कृतस्यापि नामिव्यञ्जनान्ताद् इत्यनेन लोपो भविष्यति । तर्हि अकारान्ताद् दीर्घ श्रवणार्थं यथा श्येनायते इति चेत् तर्हि नाम्यन्तानामित्यत्र नाम्यन्तग्रहणं न क्रियतां ततश्चाकारान्तस्यापि दीर्घे सति श्येनाय इत्यादिकं भविष्यति तत्रापि नाम्यन्तग्रहणं यथासम्भवदर्शनार्थम् इति वृत्तिकृताप्युक्तम्, न तु कार्यार्थमिति । न च आय्यन्ताच्चेत्यत्राय्यन्ताच्चेति कृतेऽविशेषाद् यिनोऽपि ग्रहणं भविष्यति इति वाच्यम् । 'एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य' (व्या० परि० ५२ ) इति न्यायात् “नाम्यन्तानां यणायि०" ( ३ | ४|७० ) इत्यादौ यिन उपादानाच्च ? सत्यम् | आकारकरणात् क्वचिद् व्यञ्जनान्तादपि आकारश्रुतिर्भवति । यथा 'शरदायते, प्रावृषायते' इति वररुचिः । न च व्यञ्जनान्तादाप्रत्ययेऽपि शास्त्रकारस्येष्टत्वात् तत् सिद्धमिति वाच्यम् । तस्य पाक्षिकत्वेन तदभावपक्षेऽनिष्टं स्यात् । वस्तुतस्तु विचित्रार्थ एवाकारः । अत एव पाणिनितन्त्रे न दृश्यते । अथ यिङिति क्रियताम्, तथा च ङकारस्यात्मनेपदित्वाद् आय्यन्ताच्चेत्यपि न कृतं स्यादिति चेत्, सूत्रं विनाऽन्तग्रहणस्य यत् फलं दरिद्रतीत्यादौ तत् कथं स्याच्चेत्, न स्वमतम् । अथ परमतमपि शिष्यबोधनार्थं स्फुटीकर्तव्यम् । तर्हि रुचाद्याश्रयणाद् भविष्यति चेत् कष्टं स्यादिति । गर्दभतीति वृत्तिः । अत्रायिविषये "सर्वप्रातिपदिकेभ्यः क्विप्" इति काशिका | तर्हि अस्मन्मते कथं क्विवन्तादायिश्चेदुच्यते । अत्र आयिविषयेऽकारान्तगल्भक्लीवहोडेभ्यः क्विप इति काशिका एषामदन्तानां पकारानुबन्धत्वं करोति क्विवन्तेभ्य