________________
१५९
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः ह्यमीषां धातूनाम् अ-प्रत्ययो नास्तीति यदि चानभिधानम् परो ब्रूयात्, अत्रापि तदस्तीति सर्वमनवद्यम् । पूर्वोक्तमेवार्थम् अनुष्टुभा संक्षिपन्नाह - ओजसोऽप्सरस इत्यादि । न चाश्वो गर्दभत्यपि इति । नाश्वो गर्दभतीति नप्रयोगेऽपि विवक्षया भवतीत्यर्थः । अथवा अश्वो गर्दभतीति । न च लुप्तायिप्रत्ययाभिधानमस्तीति मतं प्रतिक्षिपति । तथा व्यर्थ इत्यादि । च्च्यर्थोऽभूततद्भावः । स च कर्तुरिति वचनाद् भवत्यर्थ एव गम्यते इति । अतोऽभृशं भृशं करोतीत्यत्र कर्मणो न भवति । तत्र भृशादिः- 'भृश , शीघ्र , चपल, पण्डित, उत्सुक, उन्मनस्, अभिमनस्, सुमनस्, दुर्मनस्, वर्चस्, चेतस्, भ्रमत्, तेजस्, ओजस्. सुरजस्, अजरस्, बेहत्, रेहत्, रोहत्, शश्वत्, शुचि, अङ्गिरस्, अन्तर, नील, मद्र, फेन, हरित, मन्द । तथेति पूर्ववद् आचारार्थे एवायमायिर्न तु यत्नान्तरं कर्तव्यम् । वस्त्वभेदं दर्शयितुमाह - अभृश इत्यादि।
ननु अभूततद्भावो हि च्च्यर्थः, स चावस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिः । यथा शुक्लीभवति वस्त्रमिति कथं तद्वदुच्यते । उपमानं तु धर्मान्तरस्याध्यारोपेण भवति । यथा 'अग्निर्माणवकः' इति गौणत्वमुच्यते, तत् कथं च्यर्थस्याचारार्थेनाभेद इत्याह - सादृश्यादिति । एतदुक्तं भवति । न खलु अत्यन्ताभेदोऽभिधातुमिष्यते, किन्तर्हि अभृश एव भृशो भवति, अभृश एव भृश इवाचरति । भृशसदृश एवोभयत्रापि भृशगुणसन्निधानादेव व्यवहार इति । सादृश्यादभेदः प्रवर्तते, विशेषस्त्वेतावान् – च्यर्थे वस्त्वेव तथा जातमाचारार्थे च बुद्ध्या रोपितमिति बुद्धिरेव भिद्यते, न तु वस्तु । भृशशब्दप्रवृत्तौ यत् कारणं तस्यैकत्वादिति । मतमिति शर्ववर्मणः सम्मतमित्यर्थः । ननु सकारलोपोऽस्त्येव, तकारस्य लोपः कथमित्याह - तलोपेष्टिरिति । अभिधानादिह वर्णनाशो वेदितव्यः इति भावः ।
___ डाउलोहितेत्यादि। डान्प्रत्ययान्तेभ्यो लोहितादिभ्यश्च्यर्थे, तथा पूर्ववदाचारार्थे आयिरित्यर्थ: । अपटत् पटद् भवति पटपटायते, पटपटायति । डाच्यव्यक्तानुकरणस्येत्याभीक्ष्ण्ये डाज्विषये द्विर्वचनम्, ततोऽव्यक्तानुकरणादनेकस्वरादनितौ डाच्, ततोऽभ्यासतलोपश्च तमादित्वात् । डानुबन्धेऽन्त्यस्वरादिलोपोऽस्त्येव, तत आचारार्थविवक्षायाम् आयिप्रत्ययः, आय्यन्तादात्मनेपदमेव स्यात्, उभयपदं चेष्यते, तेन डाउलोहितादिभ्यस्तत् कथमित्याह – यजादिष्वित्यादि । लोहितादेराकृतिगणत्वाद् (लोहित; चरित, नील, फेन, मद्र, हरित, दाह, मन्द) वर्मायति - वर्मायते । एवम् अनिद्रावान् भवति निद्रावान् इवाचरति-निद्रायति - निद्रायते । तथा करुणायतिकरुणायते । कृपणायति-कृपणायते । निद्रादिभ्यस्तद्वति वर्तमानेभ्य एव आयिर