________________
१५८
कातन्त्रव्याकरणम्
कर्तरि क्विपो विधानात् । कण्डूरिति वेदनामात्रं प्रतीयते न कर्ता, मन्तुर्वन्तुरिति यणि दीर्घत्वे क्वावपि दीर्घश्रवणं स्यात् । अथ निमित्ताभावाद् दीर्घनिवृत्तिरिष्यते, ततोऽन्तः प्रसज्येत कण्ड्वा-कण्डू इति, अत्र धातुत्वाद् वादेशः स्यात् । नैवम, दृशिग्रहणं तत्र प्रयोगानुसारार्थमिति क्विप् नोपपद्यते । अतो धातवश्चेत्येके पाठविकल्पोपदर्शनेनोभयथापि ग्रहीतव्यम् इत्यादर्शयन्ति । एवं सति पूर्वपक्षोऽपि शुद्ध इति । तथा च भर्तृहरिराह – पुत्रीयपुत्रकाम्यादयः सुबन्तोपादानाः क्रियार्था धातवो जीवत्यादिवत्तिरोहितसाध्यसाधनभावप्रविभागाः, नहि भवति प्राणान् जीवतीति यथाकथञ्चिद् व्युत्पाद्यन्ते । इह तु यिन्-काम्यादीनाम् विधानात् नामधातुषु यथेष्टं द्विर्वचनम् – “धात्वादेः षः सः, णो नः" (३।८।२४, २५) इति च न भवतीति प्रतिपत्त्यर्थम् ।।४५८।
[वि० प०]
कर्तुः। सलोपश्चेति चकारस्यान्वाचयशिष्टत्वात् तदभावेऽप्यायिरिति दर्शयति - श्येनायते इति, आय्यन्ताच्चेत्यात्मनेपदम् । वर्णान्तस्य विधिरिति न्यायान्मध्यसकारस्य लोपो न भवति । सारसायते, ओजायते इति । ओजःशब्दस्तद्वति पुरुष वर्तते, ओज इवाचरति ओजस्वीवाचरतीत्यर्थ: । पयसः कथं विभाषया सलोपः इति हेतुमाह- वाशब्दस्येष्टार्थत्वादिति, “धातोर्वा तुमन्तात्" (३।२।४) इत्यतो वाशब्दोऽनुवर्तते, स च रालोपेन संबध्यते, ततः क्वचिद् विकल्पः क्वचिन्नित्य ः सलोप इत्यर्थः । आयेश्च लोप इति । कथमेतत् ? सत्यम्, सेति लुप्तषष्ठीकं पदम् । तेनायमर्थः - सलोपश्चेति चकारादायेश्च लोप; सर्वप्रातिपदिकेभ्यो विभाषया आयिलोप : इति सम्बन्धः । मतमिति, मतान्तरमित्यर्थः। अपरे तु गल्भक्लीबहोडेभ्यः इति मन्यन्ते, गल्भ इवाचरतीति गल्भते । एवं क्लीबते, होडते इत्याह - गल्भ इत्यादि । एते कृतायिलोपाः सन्तो रुचाद्याश्रयणाद् आत्मनेपदिनः गल्भाञ्चक्रे इत्यादावाम्प्रत्ययश्चेष्यमाणः प्रत्ययान्तत्वात् सिद्धो भवतीत्याह – प्रत्ययान्तत्वाद् आमिष्यते एवेति ।
अत्र पूनरायिलोपदर्शनं नादृतमेव, यच्च गल्भते इत्यादि तच्च 'गल्भ आधाष्ट्ये, क्लीवृ मदे, हेड्र होअनादरे' इत्येतैरात्मनेपदिभिः सिद्धम्, एते च स्वभावादन्तर्भूतोपमानोपमेयभावा इत्यर्थोऽपि न भिद्यते, पचाद्यजन्तेभ्यश्चैतेभ्य: आयिरस्तीति गल्भायते इत्यादयोऽपि सिद्धा इति । यत् पुनर्गल्भाञ्चक्रे इति, तत्र गल्भनं गल्भा "गुरोश्च निष्ठासेटः" (४।५।८१) इति अ-प्रत्ययः । “स्त्रियामादा" (२.। ४।४९) ततश्चक्रे इति सम्बन्धात् कर्मणि द्वितीया, तर्हि गल्भाञ्चकारेति स्यादिति चेत्, न । अनेन क्रमेण मतान्तरेऽपि परस्मैपदं कथन्न भवति, न