________________
१५७
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः सोऽपि प्रशाध्यम् उत्फुल्ललोचनादियुक्तं दृष्टा सुखमस्योत्पन्नमिति जानात्येव । विशेषस्तु एतावान् प्रसाध्यः प्रत्यक्षेण प्रसाधको लिङ्गेनेति निरपेक्षत्वात् कर्तृवेदनायामेवेति, किं परिहारेण । शब्दादीनि करोतीति शब्दादिक्रियायां शब्दादयो धातव इति । 'शब्दाय, वैराय, कलहाय, अभ्राय, कण्ठाय, मेघाय, सुदिनाय, दुर्दिनाय, नीहाराय, अटाटाय, अट्टाय, शीकराय, कोटाय, पोटाय, सोटाय, पुष्टाय, तुष्टाय, वेलाय, युद्धाय, ओघाय, रोगाय, समूहाय, प्रह्वाय' | एते स्वभावादात्मनेपदिनः।।
शब्दादिभ्यो नामभ्य : करोत्यर्थे इन् भवत्येव । शब्दयति वैरयतीति । नमस्तपोवरिवसस्तु यिन्निति न वक्तव्यम् इति भावः । नमस्यधातुः पूजायाम्, तपस्यधातुः सन्तापादौ, वरिवस्यधातुः परिचर्यायाम् । यद्यपि नमस्यतिशब्दे नमःशब्दोऽस्ति तथाप्यनर्थकः । अर्थद्वारकश्च पदस्य पदान्तरेण सम्बन्धः। किञ्चानव्ययोऽयम्, कथन्तर्हि नमस्करोति देवानित्यत्र द्वितीया । अत्रापि नमस्करोतीत्यनेन सम्बन्धो देवशब्दस्य न तु नम:शब्देनेति । न तत्र योगशब्दोऽर्थयोगप्रतिपत्त्यर्थः, किन्तर्हि पर्याय एव द्रष्टव्यः । किञ्च 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' (का० परि० ५९) इति कारकनिमित्ता हि विभक्तयोऽन्तरङ्गाः, उपपदनिमित्तास्तु पदान्तरापेक्षणाद् बहिरङ्गाः । यस्तु नम आदिभ्यो यिनमिच्छति नमः करोति नमःशब्दम् मुच्चारयतीत्यत्रैतन्मते पूजायामिति वक्तव्यं स्यात् । शब्दं करोतीति शब्दमुच्चारयतीत्यनभिधानं वा आश्रयितव्यम् । 'चित्र आश्चर्ये' इति ङानुबन्ध आत्मनेपदार्थोऽवयवलिङ्गत्वान्न वक्तव्यमिति भावः । विस्मयक्रियायां चित्रीयङ् धातुः । "कण्वादिभ्यो यम्" इति न वक्तव्यमिति भावः । कण्ड्वादिक्रियायां कण्डूयञ्प्रभृतयो धातवः । कण्डूयञ्, मन्तूयञ्, वल्गूयञ्, असूयञ्, हणीयङ्, महीयङ्, वैयञ्, नायञ्, वैट्य, नाट्य, तिरस्य, इरस्य, इरज्य, उरस्य, उषस्य, तन्तस्य, भिषज्य, भिक्षुष्य, लेट्य, लोट्य, एलाय, केलाय, खेलाय, दोलाय, मेधाय, कुसुभ्य, मगध्य, इषुध्य, स्वास्थ्य, दुःख्य, सुख्य,सपर्य, अरपर्य, अगद्य, समय्य, तुरण्य, भुरण्य । ननु च कुसुभ्यादयोऽकारान्ता विषयसप्तमीत्वाद् अस्य च लोपे सति व्यञ्जनाद् विहितस्य यणो यस्य लोपो भवतिकुसुभिता | धातुपाठे तु यथा ईर्थ्यता तथा कुसुभ्यिता, मगध्यिता इत्यनिष्टरूपं स्यात् । नैवम्, तत्र व्यवस्थितवाधिकाराद् व्यञ्जनाद् विहितस्यापि लोपो व्याख्यायते । मतान्तरं व्याचष्टे - एतत् सर्वं वेत्यादि । अधिकृतेन वाशब्देन करोत्यर्थे यणप्रत्ययो भवति । णकारो गुणप्रतिषेधार्थः।
कण्ड्वादयो नामान्येव यणमन्तरेण प्रयोगदर्शनात् – कण्डूमन्तुर्वन्तुरिति । न च धातुत्वे सत्येवं प्रयुज्यते, यणन्तेभ्यः एतानि रूपाणि क्विपि भविष्यन्तीत्यप्ययुक्तम्,