________________
१५६
कातन्त्रव्याकरणम् ननु कथं नियमः । 'संग्राम युद्धे' (९।२१९) इति चुरादौ आत्मनेपदार्थ: पाठः, तर्हि केवल एव पठितव्यः । यथा इक इङश्च केवलपाठे सति ‘अध्येतिअधीते' इति अधिना योगः । एवमस्यापि समा योगो भविष्यतीति भावः । कश्चिद आह - आयिमुत्पाद्य पश्चादुपसर्गेण योग इति । तदा अनुन्मन उन्मन इवाचरतीति मनसः कर्तृत्वे आयिः स्यान पुरुषस्य कर्तृत्वे अदुर्मना दुर्मना इवाचरतीति । किं चेह चरिरयमाङा सह निर्दिष्ट: कथं चोपसर्गान्तरेण पुनर्योग इत्यपपक्ष एव । अभेदेऽपि डाउलोहितादीत्यादि - पटत् पटत् भवति पटपटाभवति । आभीक्ष्ण्ये द्विर्वचनम् । ततोऽव्यक्तानुकरणादनेकस्वरादनितौ डाच, अभ्यासे तलोपः, तमादिनिपातनस्येष्टप्रकृतित्वात् । अपटपटाभूतः पटपटेवाचरतीत्यर्थः। अपटपटा पटपटभवतीति विवादी पुनराह – व्यर्थे भवतिना योगे डाच् उक्तेऽपि भवत्यर्थे डाजन्तादायिर्वचनप्रामाण्यादिति । उभयपदस्य च निमित्तमाह – यजादिष्वित्यादि । एवं वर्मायतिवर्मायते । अनिद्रावान् निद्रावानिवाचरति निद्रायति, करुणायति, कृपणायति । निद्रादिभ्यस्तद्वति वर्तमानेभ्य आयिरभिधीयते । एक आह - अपौराणश्च लोहितादिपाठ इति । अन्य आह-डाउलोहिताभ्याम् इति युक्तम् । आदिग्रहणस्य प्रयोजनं देवा ज्ञातुमर्हन्तीति आकृतिगणोऽयमिति वदन् सन् मरुमरीचिकादिभिरुदकघटं पूरयतीति । कष्टादिभ्यः पापवृत्तिभ्यश्चतुर्थ्यन्तेभ्यः क्रमणेऽर्थे आयिर्न वक्तव्यः । कष्टादयस्तद्वतीह वर्तन्ते । यो हि कष्टाय कर्मणे क्रामति स कष्टवान् इवाचरतीति प्रवर्तते इति सिद्धं तत्साधात् । परस्य क्रमणमपि प्रवर्तनमेव न पादविहरणम् । कष्टाय तपसे क्रामतीति प्रथमान्ततैव न घटते इति भावः । एवं रोमन्थवर्तने रोमन्थाय प्रकृत्यन्तरं वर्तनं श्लक्ष्णीकरणम्, यथा कुङ्कुमं वर्तयतीति । हनुचलन एवेति हनुर्वदनैकदेशस्तस्य चलनम् । इहेत्यादि । रोमन्थशब्दः स्वभावादक्रियावचनो नास्य धातुसंज्ञेत्यर्थः। कीटो रोमन्थं वर्तयति, वर्तलीकरोतीत्यर्थः । तत्राभ्यवहतस्य तस्य पुनराकृष्य चर्वणं प्रतीयते । इह तु उद्गीर्णमवगीर्णं वा रोमन्याख्यं द्रव्यमिति । किं रोमन्थं वर्तयति, किं हनुचलन इति सूत्रेण । एवं बाष्पमुद्वमति मुञ्चतीत्यर्थः, किं बाष्पोष्मफेनम् उद्वमतीति सूत्रेण | धूममुद्वमतीत्यर्थेऽपि केचिद् 'धूमायन्त इवाश्लिष्टाः' इति ।
सुखादीनि वेदयते इति । वेदनं वेदस्तं करोतीति वेदयते जानातीत्यर्थः । अस्यां क्रियायां सुखादयो धातव इति – सुखाय दुःखाय तृप्राय कृच्छ्राय अनाय अस्त्राय अनीकाय करुणाय कृपणाय हलाय सोढाय प्रतीपाय । सुखं वेदयते प्रसाधको देवदत्तस्येति सुखशब्दोऽयमक्रियावचन इति नास्य धातुसंज्ञा । प्रसाधको मण्डयिता,