________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१५५
इह तु आयिलोपदर्शनं नादृतम्, यच्च गल्भते इत्यादि । 'गल्भ आधाष्टर्ये, क्लीबृ मदे, हेड्र होड्र अनादरे' (१/३९६, ३८७, ३७४) । आत्मनेपदिनः स्वभावादेवान्तर्भूतोपमानोपमेयवचनाः । 'गल्भायते, क्लीबायते, होडायते' इति च पचाद्यजन्तादायिर्भवति, यदीह सर्वप्रातिपदिकेभ्य इति मतमाचष्टे तर्हि " ते धातवः' ( ३।२।१६ ) इत्यनेनैषां धातुसंज्ञा सिद्धा । आय्यन्तत्वाद् व्यर्थ एव गणपाठो रूढत्वात् । यच्च ‘गल्भाञ्चक्रे' इति । गल्भनं गल्भा "गुरोश्च निष्ठासेट : " ( ४/५/८१ ) इति अप्रत्यय:, ततो द्वितीयायां 'गल्भाञ्चकार' इत्यपि प्राप्नोति । मतान्तरेऽपि कथन्न भवति स्वरार्थं क्लीबादिधातुषु पठ्यमानेषु तथा आय्यन्तत्वमपीति भावः । वाशब्दस्येष्टार्थत्वादिति हेतुं वर्णयन्नाह - ओजसोऽप्सरसः इत्यादि । न चाश्वो गर्दभत्यपि' इत्यादि नञ्योगेऽपि विवक्षया भवतीत्यर्थः । अथवा न च प्रयोगः अश्वो गर्दभतीति मतं निरस्यति ।
ओजसोऽप्सरसो नित्यमन्यस्यान्ये विभाषया एके त्वप्सरसो नित्यं सलोपस्मृतिमास्थिताः॥
तदा 'सरायते, सरस्यते' इति भवितव्यम् । एके त्वप्सरसो नित्यमिति । ओजायते - ओजस्यते इति भवितव्यम् । तत्रापि तद्वदित्यर्थे वर्तमानादेव ओजसः ओजस्वीवाचरतीति विग्रहः । आचारक्रियाया अन्यत्रापि इत्यन्ये । ओजस्वी भवति ओजायते । तथा च्व्यर्थ इत्यादि । च्व्यर्थोऽभूततद्भावः । कर्तुरिति वचनाद् भवत्यर्थ एव अभृशं भृशं करोतीत्यत्र न भवति च्व्यन्तेभ्योऽपि नैव च्विनैवोक्तार्थत्वात् ।
भृशादिः - भृश, शीघ्र, चपल, पण्डित, उत्सुक, उल्मुक, उन्मनस्, अभिमनस्, सुमनस्, दुर्मनस्, अमनस्, वर्चस्, ओजस्, चेतस्, बेहत्, रेफत्, शश्वत्, शुचि, अङ्गिरस्, निल, मद्र, फेन, हरित्, मन्द । तथा पूर्ववद् आचारेऽर्थे आयिर्भवतीत्यर्थः । अभृशः सन् केनचित् भृशसादृश्येनोपमीयते च्व्यर्थवादिनाप्यध्यारोपणपक्षे यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेश इति सोऽप्यभूततद्भाव इति प्रतिपत्तव्यम् । अथ प्रकृतिविपरीतो यदर्थात्मा सम्पद्यते व्यवस्थितस्यैव गुणान्तरसंबन्धात् स परिणामोऽभूततद्भाव उच्यते । एवमपि अभृशो भृशगुणसन्निधानाद् भृश इति बुद्धेरेव भेद इत्याह- भृश इत्यादि । गणेऽस्मिन् तकारसकारावेव व्यञ्जने, तत्र सलोपः सिध्यतीत्याह – तलोपेष्टिरिति । वर्णनाशोऽपि दृश्यतेऽभिधानादिति भावः । तदादिभिः समस्तादपि मनःशब्दादेवायिर्न समुदायान्नाम्न इति वचनात् । तेन सुमनायते, सुमनाय्य गतः । स्वमिमनायिषत इति अडागमयवादेशद्विर्वचनेषु न दोषः । संग्रामयतेरेव समादेरिति नियमाद् वा ।