________________
१५४
कातन्त्रव्याकरणम्
ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया ।
आयिलोपश्च विज्ञेयो न चाश्वो गर्दभत्यपि ॥ तथा च्च्यर्थे भृशादेस्तसोर्लोपश्चेति । अभृशो भृशो भवति भृशायते । एवम् उन्मनायते, दुर्मनायते । बेहत् - बेहायते । शश्वत् - शश्वायते । वावचनाच्च्विरपिभृशीभवति । अभृशो यो भृशो भवति स भृश इवाचरति । सादृश्यादभेदो वस्तुन इति मतम् । तलोपेष्टिरिति ।
तथा डालोहितादिभ्यश्च्व्यर्थे – पटपटायति, पटपटायते । एवं लोहितायति, लोहितायते । यजादिषु पाठ इष्यते । कष्टाय कर्मणे क्रामति कष्टायते । एवं पापायते, कक्षायते, शत्रायते, गहनायते । पापवृत्तिभ्योऽन्यत्र न भवति । कष्टाय तपसे क्रामति । रोमन्थं वर्तयति रोमन्थायते गौः । हनुचलन एव । इह न स्यात् - कीटो रोमन्थं वर्तयति । बाष्पमुद्वमति - बाष्पायते । एवम् ऊष्मायते, फेनायते । सुखादीनि वेदयते - सुखं वेदयते सुखायते । एवं दुःखायते । शब्दादीनि करोति - शब्दं करोति शब्दायते । एवं वैरायते, कलहायते । नमस्तपोवरिवसस्तु यिन् – नमस्करोति नमस्यति देवान् । एवं तपस्यति शत्रून्, वरिवस्यति गुरून् । चित्रङ् आश्चर्ये । आश्चर्यं चित्रं करोति चित्रीयते । कण्ड्वादिभ्यो यण् । कण्डूञ् - कण्डूं करोति कण्डूयति, कण्डूयते । महीङ्-महीयते इत्यादयोऽप्यनुसतव्याः । एवं सर्वं वाशब्देन बहुलार्थेन वा सिद्धम् ।। ४५८।
[दु० टी०]
कर्तुः । श्रुतया आचारक्रियया कर्तृत्वम् आय्यन्तादपमेयकर्तसामान्ये आत्मनेपदं काकादिपदसामानाधिकरण्येनोपमेयकर्तृविशेषोऽवसीयते । सलोपश्चेति । अन्वाचयशिष्टोऽयं चकारः, यस्मादनपेक्ष्यायिविधीयते, सलोपस्त्वायिमपेक्षते चार्थयोगात् सलोपे कर्तव्ये, अर्थात् कर्तुरिति षष्ठी तत्सान्तत्वेन विशिष्यते, श्येनस्य कर्तुर्यदाचरणं तद्वत् काकस्यानुतिष्ठतः । श्येनायते इति प्रसिद्धि: । श्येनमिवात्मानमाचरति काक इत्यभेदात् कर्तृसम्बन्धिन उपमानात् कर्मण इति परपक्षस्तु दुष्ट एव । यथा कश्चिच्छ्येनमाचरति, तद्वत् काकः आत्मानमाचरतीति अत्रापि स्यात् । अथैक एव काको द्विधा विवक्ष्यते – कर्मतया कर्तृतया च । किमनेन यत्नेनेति । आयेश्च लोप इत्यत्र समाधिः सेति कृतषष्ठीलोपं पदं तेनायेश्च - लोप इत्यपि सम्बन्धो भवति । मतम् मतान्तरमेतत् । गल्भक्लीबहोडानां च रुचाद्याश्रयणादात्मनेपदम् – 'गल्भांचक्रे' इत्याम्प्रत्ययश्च शिद्धो भवति । यदाह – गल्भक्लीबहोडेभ्य इत्येके । सर्वप्रातिपदिकेभ्य इत्यपरे ।