________________
१४१
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः न वक्तव्यमित्याह - नदीत्यादि । इवन्तद्धेत्यादिना पतेरिड् वा । पतितुमिच्छति मर्तुमिच्छतीति यथा वाक्यं तथेदं पिपतिषतीत्यर्थः । वाक्यमेव तर्हि कथमित्याह - विवक्षयेति । एतदुक्तं भवति – यथा काशादिकं दधानं पुरुषं दृष्ट्रा इच्छा गम्यते कटमेव कर्तुमिच्छतीति तद्वदचेतनस्यापि नदीकूलस्य लोष्ट्राणि शीर्यन्ते भिदाश्च जायन्ते इति दर्शनादिच्छा गम्यते - नदी कूलं पतितुमिच्छतीति । तथा शुनः सचेतनस्यापि मरणेच्छा न संभवतीति न देश्यम्, तम्याप्यस्थिचर्मावशेषतया मर्तुमिच्छतीति लोके विवक्षादर्शनात् । ननु तुमन्तादिच्छतिनैककर्तृकादिति एतावतैव सन् भवति, ततस्तुमं प्रत्येव यतितव्यं तस्यैव सनुत्पत्तेर्निमित्तत्वात् । तत् किमिदमुच्यते, यथा वाक्यं तथेदमिति ? सत्यम् । एवं योज्यते वृत्तिः- भवन्मते वाक्यं तर्हि कथम्, न हि तुमं प्रति भवतो वाक्यमस्तीति ? सत्यम् । विवक्षया वाक्यमिति परः। एवं तर्हि यथा भवन्मते वाक्यम्, तथात्रापि विवक्षयेदं वाक्यम् । ततश्च सन् प्रत्यय इत्यदोषः ।। ४५४।
[क० च०]
धातोः । ननु समानकर्तृकत्वं क्रियाया एव घटते न तु धातोः । अथ धातुशब्द एवार्थपरः,तर्हि कथमर्थस्य तुमन्तत्वमिति, परस्परविरोधात् सनो विध्यनुपपत्तिः ? सत्यम् । अर्थस्यैककर्तृकत्वात् तद्वाचको धातुरपि एककर्तृक उच्यते, अर्थधर्ममादायोपचारात् । धात्वर्थस्येच्छा कर्मत्वे सत्येव विधिरयम्, तेन स्थातुं गृहमिच्छतीत्यर्थे गृहं तिष्ठासतीति प्रयोगो न स्यात्, इच्छार्थान्वयेन (इच्छासनन्वयेन तुमन्तस्य) व्याप्यत्वाभावात् । किन्तु गृहे स्थातुमिच्छतीत्यर्थे गृहे तिष्ठासति इत्येव प्रयोग : स्यादिति चेदेवमपि स्यात् चेत्, न । अभिप्रायापरिज्ञानात् । तथाहि तुमन्तप्रकृत्या सह सन एकार्थीभावात् कर्मान्तरान्वयानुपपत्तेः कुतः सनर्थभूतायाः इच्छायाः कर्म गृहं भवितुमर्हतीति महान्तः। तदसङ्गतमिव लक्ष्यते, यदि तुमन्तेन सह कर्मान्तरानन्वयः, कथं तदा कटस्य चिकीर्षा इत्यादि प्रयोगः स्यात्, नहि सना सह कटस्यानन्वये सति कटस्य कर्मत्वं भवितुमर्हतीति ।।
___ अथ करोतेाप्यत्वेन कटस्य कर्मत्वमिति चेत्, न । तदा कटमिति द्वितीयैव प्राप्नोति, न तु षष्ठीति । यावता सनन्तसमुदायस्यैव कृदन्तत्वं तदन्वयेनैव कर्तृकर्मणोरित्यस्य विषय इति, तस्मादेकार्थीभावेऽपि 'गुणीभूतापि क्रिया साधनसम्बन्धमनुभवति' इति न्यायात् कर्मान्तरेणाप्यन्वयः । कथमन्यथा 'पुत्रीयति माणवकम्' इत्यत्र माणवकस्य कर्मत्वमिति ब्रूमः । ननु सूत्रे एकग्रहणात् कटं कर्तुं देवदत्ताविच्छतः इत्यत्र सन् न स्यात्, अत एव पाणिनिना "समानकर्तृकादिछार्थे" (अ० ३।१।७) इति सूत्रं कृतं चेद् अस्मन्मतेऽप्येकशब्दः समानार्थक इति । सना द्योतितत्वादिति वृत्तिः, उक्तार्थत्वा