________________
१४२
कातन्त्रव्याकरणम्
दित्यर्थः । ननु कथम् इषेरप्रयोगः, येन तुमपि निवर्तते । न हीच्छार्थे सन् विधीयते, अपि तु इच्छतिना समानकर्तृकात् तुमन्तादिति, ततश्चेच्छति चिकर्तुं सतीत्यनिष्टरूपं स्यात् ? सत्यम् । “यस्मै दित्सा" (२।४।१०) इति ज्ञापकाद् यिन्वद् इच्छार्थे सन्नपि विधीयते इति पञी। “सनि चानिटि" (३।५।९) इति । ननु कथमिदं ज्ञापकं यत्र तुम् नास्ति, तत्रैव तस्य चरितार्थत्वात्, यथा जुगुप्सते इत्यादि ? सत्यम् । “सनि चानिटि" (३।५।९) इत्यत्रानिग्रहणं व्यर्थम् । न हि गुपादीनामिडस्ति येनानिटीत्यूच्यते तस्मादनिग्रहणात् तुविषयात् सन् स्यादिति । सूत्रार्थ इति । विप्रतिपन्नं प्रत्याह - किञ्चेति । वक्ष्यतीति "तृतीयादेर्घढधभान्तस्य" (३।६।१००) इत्यत इडागमसूत्रे धातोरित्यधिकारादिति शेषः । 'जुगुप्सते' इत्यादौ धातुसंज्ञाश्रितो न सन्प्रत्ययः, किन्तु गुपाद्याश्रित इति । तथा शिश्रयिषतीत्यादि । अथ "सनि चानिटि" (३।५।९) इति ज्ञापकादिङ् भविष्यति चेत्, नैवम् । तस्मादेव ज्ञापकाज्जुगुप्सते इत्यादावतिप्रसङ्गात् । व्यक्तिपक्षमवलम्ब्य पूर्वपक्षयति -- नन्वित्यादि ।जातिपक्षमवलम्ब्य समाधत्ते - स्वशब्देत्यादि। 'क्वचिज्जातिः क्वचिद् व्यक्तिः' इति तु लक्ष्यवशादेव मन्तव्यम् । तथा च,
मत्वर्थादपि मत्वर्थः शैषिकादपि शैषिकः।
सरूपप्रत्ययो नेष्टः सनन्तात् संश्च नेष्यते ॥इति । ___ अयमर्थः- मत्वर्थात् सरूपमत्वर्थप्रत्ययो नेष्टः । यथा दण्डोऽस्यास्तीति दण्डवान्, पुनर्दण्डवानस्यास्तीति न वन्तुप्रत्यय इति । विरूपप्रत्ययस्तु भवत्येवेति । दण्डवानस्यास्तीति (दण्डी अस्यास्तीति) दण्डिमती शाला | अपत्यादिभ्योऽदूरे च इति पर्यन्तेभ्यो योऽर्थः, स शेषः पाणिनितन्त्रे प्रसिद्धः, तत्र भवः प्रत्ययः शैषिकः । यथा शालायां भवः शालीयः, शालीये भवः इत्यर्थे पुनरीयो न भवति । विरूपस्तु भवत्येव, यथा अहिच्छत्रस्यापत्यम् आहिच्छत्रिः | तस्मादीयः आहिच्छत्रीयः, तथा सनन्तादपि सरूप इति सम्बध्यते । तत्र यद्यपि सनः समानरूपस्य व्यभिचारो नास्ति, तथापि विशेषणसामर्थ्यादत्र सारूप्यमाश्रीयते, तेनेच्छासनन्तात् सन्न भवति । अन्यत्र तु भवत्येवेत्याह – यत्रेत्यादि । 'आशङ्कायामुपसंख्यानम्' (वा०) इति । योगविभागादियमिष्टसिद्धिरिति पाणिनीयाः। अहमाशङ्के नदीकूलं पतितुमिच्छतीत्यर्थः ।। ४५४ ।
[समीक्षा]
इच्छा अर्थ में धातु से सन् प्रत्यय का विधान दोनों ही आचार्यों ने किया है | पाणिनि का सूत्र है – “धातोः कर्मणः समानकर्तृकादिच्छायां वा" (अ०३।१।७) । अतः कर्तुमिच्छति अर्थ में 'चिकीर्षति' हर्तुमिच्छति अर्थ में 'जिहीपति' शब्द सिद्ध होते हैं।