________________
१४०
कातन्त्रव्याकरणम्
एकः समानः कर्ता यस्येति विग्रहे, अर्थात् क्रियालक्षणोऽर्थः प्रतीयते, न ह्यक्रियायाः कर्ता सम्भवति, अर्थे च कार्यासंभवात् तद्वाचिनो धातोरेव सन् भविष्यति । नैवम्, भोजनमिच्छति इत्यत्रापि स्यात् । अयमपि भावे कृदन्तः । इच्छतिनैककर्तृक इति । तदप्ययुक्तम् | अपवादत्वादिह यिन्प्रत्यय एवास्ति बाधकः । भोजनीयतीति । तस्माद् यत्र यिन्नास्ति तत्र व्यवस्थितवास्मरणेन सोऽस्य विषयः - मान्ताव्ययकृत् । तद् यथा कर्तुमिच्छतीति । अथं यिन् प्रकृत्यवस्थायां विधीयते, वाक्ये च सन् प्रत्ययः । ततो भिन्नविषयत्वात् कथं यिनो बाधकत्वमिति चेत्, तदयुक्तम् । यिन्नपि हि कर्मणो विधीयते । कर्म च क्रियापेक्षमिति तस्यापि वाक्य एव विधानमिति कथं भिन्नविषयता, नहि भोजनमिच्छति भोक्तुमिच्छतीति इच्छार्थोपाधिके वाक्ये सन्- यिनोर्विधानभेदं पश्यामः । येन सन् वाक्ये विधीयते यिश्च प्रकृत्यवस्थायामित्युच्यते ? सत्यमेतत् । किन्तु कुर्वन्निच्छतीति वाक्ये प्राप्नोति । तस्मादेतन्निवृत्त्यर्थं क्रियमाणं तुमन्तग्रहणं भोजनमिच्छतीत्यादिकमपि व्यावर्तयतीति । धातुग्रहणमपि धातुपरिमाणार्थम् । तेन सोपसर्गसमुदायस्य न भवतीत्याह - धातोरित्यादि । यदि पुनः सोपसर्गसमुदायात् सन् प्रत्ययः स्यात् तदा “ते धातवः " ( ३।२।१६) इति समुदायस्य धातुसंज्ञा स्यात् । ततो धातोरादिरडागमो भवन् प्रशब्दात् पूर्वमेव प्राप्नोति, न धातोः ।
1
ननु धातोस्तुमुप्रत्ययो विधीयते, न तु सोपसर्गसमुदायात् । अतो धातुरुपसर्गरहित एव तुमन्त इति उच्यते । तुमन्तात् सन् भवन् कथं सोपसर्गसमुदायाद् भवितुमर्हतीति ? सत्यम् । सुखार्थमेव धातुग्रहणम् । अन्यथा प्रकर्तुमैच्छदिति वाक्ये सनो विधाने सोपसर्गस्यैव धातुत्वं मन्दधियः प्रतिपद्येरन्निति । किञ्च धातुसंज्ञामाश्रित्य यदसार्वधातुकं तस्यापीडागमं वक्ष्यति । अतो यदि धातुग्रहणं न कृतं स्यात्, तदा यथा जुगुप्सते इत्यादिष्विडागमो न भवति, तथा शिश्रयिषतीत्यादिष्वपि न भवति । अस्यापि सनस्तुमन्तमाश्रित्य भवतो धातुसंज्ञाश्रितत्वानुपपत्तेरिति । ननु चिकीर्षितुमिच्छतीति वाक्ये सनन्तात् पुनः कथं सन् न भवतीत्याह - इच्छासनन्तादित्यादि । स्वशब्द आत्मीयपर्यायः । स्वश्चासावात्मा चेति स्वात्मा तस्मिन्निति ।
अयमर्थः - जातौ पदार्थे एक एवायमिच्छासन्प्रत्ययः, न चैकस्मिन् प्रकृतित्वं प्रत्ययत्वं च युज्यते, विरोधात् । प्रकृतिर्हि निष्पन्ना प्रत्ययोत्पत्तौ कारणं भवति, न चेह इच्छासनो विधानकाले, इच्छासनन्ता निष्पन्ना प्रकृतिरस्तीति तस्य तद्विधानस्यैकत्वात् । यथा कश्चित् सुशिक्षितोऽपि नटपटुः स्वस्कन्धमारोढुं न शक्नोति, तथेहापीति । यत्र तु भिन्नविषयत्वान्न विरोधः, तत्र भवत्येव । यथा जुगुप्सितुमिच्छतीत्यादि वाक्ये जुगुप्सिषते, मीमांसिषते इत्यादीति । 'आशङ्कायामुपसंख्यानम्' इति कश्चित्, तदिह