________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१३९ एकत्वादिच्छासनः स्वात्मनि प्रकृतिविधिभावोऽनुपपन्नः । एकमेवेदं वाक्यम् । न हि इच्छासनो विधानकाले इच्छासनन्तप्रकृतिरस्ति |अथवा सनन्तात् करोत्यर्थान्तर्भूतेच्छार्थाद् यावान् पुनरिच्छतिर्विवक्ष्यते स पूर्वोत्पन्नेनैव सनाभिधातुं शक्यते । इदमेव सनः स्वरूपं यत् प्रकृतिरूपापन्न एव स्वार्थमभिधत्ते इति । इह तु भवत्येव जुगुप्सिषते | नाशङ्कायां सन् वक्तव्य इत्याह – नदीत्यादि । यथा कटं चिकीर्षु रज्जुकीलपूलपाणिं दृष्ट्रा हीच्छा गम्यते । तथा कूलस्यापि अचेतनस्य लोष्ट्रा : शीर्यन्ते भेदाश्च जायन्ते इति प्रवृत्तित इहापीच्छा प्रतिपद्यत इति । को हि नाम लौकिकी विवक्षामतिवर्तते । तथा शुनश्चेतनावतोऽपि मरणविषया न संभवति इत्यपि न चोद्यमेव । अन्य आह - उपमानाद् वा पिपतिषतीव मुमूर्षतीव । इवशब्दो हि केनचित् सादृश्यसामान्योद्देशेन वर्तते । यथा गौर्वाहीकः । तथेहापि कूलस्य पुरुषस्य च पातसामान्यमस्तीत्युपचारः। साध्यापि क्रिया यथा विशेषणविशेष्यादीन् सम्बन्धविशेषान् प्रतिपद्यते तथोपमानतामिति ।। ४५४ |
[वि० प०]
धातोः । वा तुमन्त इत्यादि । ननु कस्यापि धातोस्तुम् न विकल्पितस्तत्कथमिदमुच्यते ? तथाहि “इच्छार्थेष्वेककर्तृकेषु तुम्" (४।५।१०६) इति विहितस्य तुम इह ग्रहणं तदर्थस्य सम्भवात्, न च तत्र विकल्पोऽस्तीति ? सत्यम् । अत एव वावचनाद् विभाषया तुमनुमीयते । तेन प्रकृत्यवस्थायामेव धातोरिच्छार्थे बुद्ध्या सम्प्रधारिते सन् प्रत्यय इति । एतेन परमतमादर्शितम् । अस्य तु मते वाशब्देन सन एव सम्बन्धः । तुमन्तात् सन् वा भवतीति । एतत्तु पश्चाद् वक्ष्यति । कर्तुमिच्छति चिकीर्षतीति तुमन्तात् सन् । सना द्योतित इच्छतेरर्थ इति उक्तार्थत्वादिषेरप्रयोगः । तदप्रयोगे च तन्निमित्तस्तमपि निवर्तते इति तन्निवृत्तौ गुणस्यापि तन्निमित्तस्य निवृत्तिरिति धातोः स्वरूपेणावस्थानम् । ततो "नाम्यन्तानामनिटाम्" (३।५।१७) इति सनोऽगुणत्वात् "स्वरान्तानां सनि" (३।८।१२) इति दीर्घत्वे "ऋदन्तस्येरगुणे" (३।५।४२) इति इर् । “नामिनो वोः" (३।८।१४) इत्यादिना दीर्घः । द्विर्वचनं ह्रस्वः, कवर्गस्य चवर्गः | ____ एवं वुभुक्षते इति “सनि चानिटि" (३।५।९) इति अत्रागुणत्वमस्ति । सनेत्यादि । एतेन तुमन्तात् सन्, तुमश्च लोपमन्तरेणापि स्थितिरेव स्यात् । अतस्तुमो लुग् वक्तव्यः इति चोद्यं च निरस्तमिति भावः । केचिदित्यादि। यदि साक्षात् तुमन्तादयं सन् प्रत्ययः स्यात् तदा तुमि धातोः प्रागेव गुणो वृत्त इति कथं गुणनिषेधार्थं “सनि चानिटि" (३।५।९) इति वचनं घटते इति भावः । अत एव वा तुमन्तो यस्येति विग्रहः । वाशब्दस्य तुमन्तेन पदेन सम्बन्ध इति सूत्रार्थे मतान्तरमाविर्भावयतीति । अथ धातोरिति तुमन्तादिति च तद्विशेषणं किमर्थम् । नाम्नो मा भूदिति चेत् तदयुक्तम् । इच्छतिना