________________
१३८
कातन्त्रव्याकरणम्
__यद्येवं वावचनमनर्थकं वृत्तिवाक्ययोः खलु स्वभावसिद्धत्वात् ? सत्यम् । वाक्यविषये वृत्तिरारभ्यमाणा वाक्यं निवर्तयेदिति । इच्छतेरन्यत्र तदर्थे तुमप्रयोगस्यासम्भवात् । कश्चिद् आह - वा तुमन्तादिति । तुमन्तेन पदेन वाशब्दस्यात्र सम्बन्धः, तेन बुद्धिसम्प्रधारणया कृञः प्रकृत्यवस्थायामेव सन्निति इच्छतीत्यत्र उपपदं न प्रयुज्यते , इच्छार्थविवक्षायामेव सन्, तदा तु इच्छायामिति कथं न विदध्याद् वाग्रहणमपि न कर्तव्यमेव स्यात्, कर्तुमिच्छतीति वाक्यस्य पृथक्पदेनाभिधानात्, किन्तु प्रतिपत्तिरियं गरीयसीति इच्छतिनेति विदध्यात् । तस्मात् पूर्व एव पक्षो ज्यायान् । इषु इच्छायामिति तुदादौ (५।७०), इच्छा च कान्तिरुच्यते । 'इष आभीषण्ये' इति क्रैय्यादिकस्य (८।४५) निरसनं छत्वनिर्देशात् । इह तर्हि प्राप्नोति पुत्रं द्रष्टुमन्विच्छतीति “वुणतुमौ क्रियायां क्रियापयाम्"(४।४।६९) इति तुम्, न दोषः । यथाश्रुतपरिग्रहादनुपूर्वोऽन्वेषणायां वर्तते । किञ्च "इच्छार्थेष्वेककर्तकषु" (४।५।१०६) इति विहितस्य तुमो ग्रहणमिह तत्करणस्य सम्भवात् । इच्छा च कान्तिक्रियस्यैव निपातनम् अन्यत्रैषा इष्टिरिति "कीर्तीषोःक्तिश्च" (४।५।८६) इति विधानात् । कर्तुमिच्छति कामयते अभिलषतीत्यर्थः । धातुग्रहणं किमर्थं तद्विशेषणं तुमन्तादित्यप्यनर्थकः । न च नाम्नः स्यात्, एकः समान : कर्ता यस्येति, अर्थात् क्रियैव, ततः कार्यासम्भवात् तद्वाचिनः स्यात् । यस्य कर्तुट्टै क्रिये साध्ये अभेदादित्यर्थः । अथ भावान्तोऽपि क्वचित् कृदेककर्तृके आसनमिच्छतीति । नन्वत्र यिना भवितव्यम्, यत्र यिन्नास्ति सोऽस्य विषयो मान्ताव्ययकृत् कर्तुमिच्छतीति, नात्र बाधा भिन्नविषयत्वात् । प्रकृत्यवस्थायां यिन्वाक्ये सन् विधीयते कुर्वनिच्छतीति वा प्राप्नोति, तर्हि तुमन्ताद् इत्यास्ताम् ? सत्यम्, धातुग्रहणं धातुपरिमाणार्थम् । तेन सोपसर्गान्न भवतीत्याह - धातोरित्यादि । ननु च धातोस्तुम् विहितस्तदादेस्तदन्तस्य च ग्रहणं तद्विधानाभावात् तदविनाभावात् तेन तुमन्तस्य सनन्तस्य धातुसंज्ञोपसर्गरहितस्यैवेत्युपसर्गात् परोऽड् भविष्यति ? सत्यम् । मन्दधियां बोधार्थमिति धातुग्रहणम् ।
किञ्च धातुमाश्रित्य यदसार्वधातुकं तस्यादेरिडिति व्याख्यास्यति । यदीह धातुग्रहणं न स्याद् यथा जुगुप्सते इत्यादाविड् न भवति, तथा आशिश्रयिषत इत्यादावपीति । अन्तग्रहणं किमर्थं तुमः सन्नादेशश्चेद् आस्ताम्, सिद्धं यत् साध्यम् । न च तदुपपदस्य स्थितिः स्यात् तदादेशत्वात् सन इति । अथैककर्तृकग्रहणसामर्थ्याद् धात्वन्ते सना द्योतितत्वं सिद्धं तदादेशेऽपीति । ननु इच्छतिना भोक्तुं शक्नोतीत्युपपदान्तरं व्यावर्त्यते । तर्हि तदन्तविशेषणतया आदेशतया वा प्रतिपत्तिगौरवं स्यादिति । कथं चिकीर्षितुमिच्छतीति वाक्यमेवेत्याह - इच्छासनन्तादित्यादि आत्मीये आत्मनि क्रिया यतो विरुध्यते । नहि संभवोऽस्ति कस्यचित् स्वं स्कन्धमारोढुं तद्वदिहापि जातौ पदार्थे