________________
१३०
कातन्त्रव्याकरणम्
स्यात् तदा कथं द्विर्वचनं स्यात्, व्यञ्जनत्वेनैकस्वरत्वाभावाच्चेत् तत्रान्तग्रहणबलादेव व्यञ्जनस्यापि द्विवचनं भविष्यति । नैवम्, अन्तग्रहणं यशब्दस्य द्विवचनेनैव चरितार्थ भविष्यति । यथा अटाट्यते इति । न च तत्र सन उपादानं व्यर्थमिति वाच्यम, तस्य चिकीर्षतीत्यादौ चरितार्थत्वात् । [ यद् वा तत्रान्तग्रहणं प्रत्यये द्विवर्चनमिति फलम् ] | ननु कथमकारस्यैतत् फलम्, फलान्तरस्यैव सत्त्वात् । तथाहि याधातोः सनि परे द्विर्वचने 'यियास' इति स्थिते ततः कारिते कृते “अस्य च लोपः" (३।६।४९) इत्यकारलोपे, ततोऽपि चणि सति ‘अयियासत्' इति रूपं भवति । अकृते त्वकारे "इन्यसमानलोपोपधायाः"(३।५ | ४४) इत्यादिना ह्रस्वप्रसङ्गः स्याच्चेत्, न । अकारमकृत्वा "गुप्तिकिद्भ्यः सन्" (३।२।२) इति ऋदनुबन्धत्वं विधातव्यम् इति तदा "न शास्वृदनुबन्धानाम्' (३ । ५।४५) इति ह्रस्वनिषेधो भविष्यति । अथाकाराभावे सति पिपतिषतीत्यत्र इटो गुणः स्यात् । कृते पुनरकारे स्थानिवद्भावान्न गुण इति चेत्, नैवम् । इटष्टकारकरणान्नात्र गुणो भविष्यति 'निरनुबन्धग्रहणे न सानुबन्धस्य' (का० परि० ४८) इति न्यायात् । यद्येवं तर्हि भेत्तीत्ति गुणो न स्यात्, इरनुबन्धत्वात् । एतीति इण्धातोश्च सानुबन्धत्वात् कथं गुण : सिध्यतीति, तस्माद् गुणविधौ निरनुबन्धेत्यादि न्यायो नास्तीति लक्ष्यते इति । तस्मादकारस्य इटो गुणाभावः फलं चेत् तर्हि इडागमसूत्रे आगमग्रहणादिटो धातुकार्यं नास्तीति व्याख्यातव्यम् । नैवम् , तस्य सुखार्थीकृतत्वादिति ? सत्यम्, अत्र स्थितेऽकारे तत्र सुखार्थम् । अकारखण्डनपक्षे तु इटो धातुकार्याभावार्थं भविष्यति। तस्मादकारोच्चारणं द्विवचनार्थमिति यदुक्तं वृत्तिकृता, तद् युक्तमेव ।
यद् वा अकारग्रहणस्य नेदं फलं किन्तु प्रथमकक्षायां दर्शितम, अन्यस्थलेऽपि फलं बोद्धव्यम् । ननु चिकित्स्यानीत्यत्राकारकरणाभावात् कथं प्रत्ययः स्यात्, एतत्तु प्रयोजनमेव चेत्, न । घ्यणप्रत्ययेन भवितव्यमिति, अकारकरणाभावे "गुपतिज्किद्भ्यः सन्" (३।२।२) इति सूत्रे कृते णकारो नियतो नास्ति । मूर्धन्यणकारानुबन्धे "न णकारानुबन्ध०" (३।५।७) इत्यादिना गुणप्रतिषेधः स्याच्चेत्, न । “सनि चानिटि" (३।५।९) इति वैयर्थ्यात् । ननु "सनि चानिटि" (३।५।९) इति सूत्रं नियमार्थं भवेत् । तथाहि अनिटां धातूनामगुणे कृते सन्येव नान्यत्रेति । इदमपि प्रयोजनम्, किन्तु वृत्तौ मुख्यप्रयोजनं दर्शितम् इति चेत्, न । विधेर्बलवत्त्वादिति ।
पत्री - तिकिदभ्यां भौवादिकाभ्यामिति । ननु कथमेतद् यावता तिज्धातुश्चौरादिकोऽप्यस्ति, कितधातुश्चादादिकोऽप्यस्ति इति चेत्, एवमुच्यते - तिगुपोः साहचर्यात् किन्धातुरपि सविकरणभौवादिक एव गृह्यते न तु लुविकरण