________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
१२९ प्राप्नोति, तथा 'तिज निशाने क्षमायां च' (१।३४८) "कित निवासे रोगापनयने च' (१।२९१) इत्याह - गुपो वधेश्चेत्यादि एषामेष्वर्थेषु दर्शितमेव । तद् यथा - जुगुप्सते माम् , निन्दतीत्यर्थ: 'तितिक्षते तपस्तापसः' । तपःसहते इत्यर्थः । विचिकित्सति मे मनः, संशेते इत्यर्थ: । यद्यपि विपूर्वात् संशयो गम्यते, तथापि नासौ वेरर्थ: किन्तु प्रकृतेरेव ‘उपसर्गा हि द्योतकाः' इति शास्त्रात् चिकित्सत्यातुरं वैद्यः, प्रतिकुरुते रोगान् अपनयतीत्यर्थः । रिपुं चिकित्सति, निगृह्णातीत्यर्थः । चिकित्स्यानि क्षेत्रे तणानि । विनाशयितव्यानीत्यर्थः । "स्वराद् यः" (४।२।१०) इति यप्रत्ययः, अस्य च लोप : इति । निग्रहविनाशावपि प्रतीकारस्य भेदाविति पृथङ् नोक्तौ । निन्दादिभ्योऽन्यत्र न भवति, गोपनं गोप इति, तेजनं तेज इति, निकेतनं निकेत इति । एषामर्थान्तरे त्यादयो नाभिधीयन्ते इति प्रत्युदाहृतम् अत्यादिभिरेव । वधिर्वक्ष्यमाणवचनस्थोऽपि निन्दाप्रस्तावादत्रोक्तः, अन्यत्र वधकः । अथ सनोऽकारः किमर्थमुपदिश्यते, यावता सार्वधातुकेऽनि विकरणे “असन्ध्यक्षरयोरस्य तौ तल्लोपश्च" (३।६।४०) इत्यस्त्येव । तथा असार्वधातुके अस्य च लोप इत्याह – अकारोच्चारणमित्यादि । अटपटेत्यादिपाठात् 'इ गतौ' (१।१०२) भौवादिकः, ततः प्रतिपर्वात सन् । “स्वरादेर्द्धितीयस्य" (३।३।२) इति सनो द्विर्वचनम्, सन्यवर्णस्येतीत्वम् । अन्यथैकस्वरस्य धातोद्धितीयस्यावयवस्य द्विर्वचने कथम् अस्वरस्य स्यादिति भावः ।।४५२।
[क० च०]
गुतिज्० | जुगुप्सते इत्यादि वृत्तिः। ननु केन सूत्रेण अनिट्त्वम्, येन "सनि चानिटि" (३।५।९) इत्यनेन गुणनिषेधः ? सत्यम् । इडागमसूत्रै धात्वधिकाराद् यत्र धात्वाश्रितमसार्वधातुकं विधीयते, तत्रैवेति । अत्र गुपाद्याश्रय एव सन् प्रत्यय इति कथम् इट्प्रसङ्गः । अकारोच्चारणमित्यादि वृत्तिः । ननु कथमेतत् संगच्छते यावता "चण परोक्षा" (३।३।७) इत्यादिसूत्रेऽन्तग्रहणं संश्चेक्रीयितयोरपि द्विर्वचनार्थमिति वृत्तावुक्तम् । तथा च "चण्परोक्षाचेक्रीयितसन्सु" इति कृते परसप्तमीयं स्यात्, न तु विषयसप्तमी । ततश्च 'सप्तम्या निर्दिष्टे पूर्वस्य' (का० परि० २१) इति संश्चेक्रीयितयोर्निमित्तयोः पूर्वस्यैव द्विर्वचनं स्यात् न तु संश्चेक्रीयितयोरिति ।
[ अन्तग्रहणे तु बहुव्रीहिणा धातवो निर्दिश्यन्ते, ततः संश्चेक्रीयितान्तधातुविषयं विधीयमानं द्विर्वचनं यथासम्भवं "स्वरादेर्द्धितीयस्य" (३।३।२) इति संश्चेक्रीयितयोरपि भवतीति | तत्कथमकारोच्चारणं किमिति । यद्यत्राकारोच्चारणं न